________________ [123 ] व्याख्या-उत्क्रान्तशिशुत्वयोग:-उत्क्रान्तः व्यतीतः शिशुत्वस्य बालस्य योगः सम्बन्धः यैस्तैस्तादृशैः तरुणैः / भवद्भिः, यस्याः-यत्सकाशात् / कामविद्या-कामकला / अशिक्षि-अधिगता : किले-ति निश्चये / सा-नारी। यदि वारनारी-वेश्या 'वारस्त्री गणिका वेश्या' इत्यमरः / विगीयते-निन्द्यते / तदा-एवं सति / वः-युष्माकम् / अध्यापक:-शिक्षकः / पूज्य:-सम्मान्यः / एव किम्-न पूज्य इत्यर्थः / अध्यापकः खलु नापशब्दप्रयोगमर्हति / तथा कुर्वता तु भवता तस्य पूज्यत्वमपाकृतम्, इति अकृतज्ञो भवानित्यर्थः // 112 // न योद्धव्यमित्यप्ययुक्तमित्याह-युद्धमितियुद्धं विधेयं न कनीयसाऽमे-त्येतन्न सम्यग्गदितं भवद्भिः / वयोव्यपेक्षाप्रसरेण धीरा, गौणं कनीयस्त्वमुदाहरन्ति // 113 // व्याख्या कनीयसा-कनिष्ठेन / अमा-सह,“अमा सह समीपयोः", इत्यमरः / युद्धं न विधेयम्कर्त्तव्यं इत्येतद्भवद्भिः न-नैव / सम्यक-समीचीनं। गदितम्-उक्तम्, कुत इत्याह / धीरा:-विद्वांसः वयोव्यपेक्षाप्रसरेण-वयसः अवस्थायाः व्यपेक्षा अपेक्षणं तस्य प्रसरेण प्रसङ्गेन, वयः अपेक्ष्येत्यर्थः / कनीयस्त्वं-कनिष्ठत्वं / गौणम्-अप्रधानम् / उदाहरन्ति-कथयन्ति / नहि कनीयस्त्वे वयोमात्रमपेक्षितम् किन्तु बलैश्वर्याद्यपीति भावः // 11 // ___ कथं तर्हि मुख्यं कनीयस्त्वमित्यपेक्षायामाह - बलमितिबलं व्यपेक्ष्येव विशेषविद्भि-य॑गादि तच्चेत्किमु संशयो न ! न निर्णयः सङ्गरमन्तरेण, प्रमाणनीयः प्रतिपद्वतापि // 114 // व्याख्या-विशेषविद्भिः-विशेषं विदन्तीति विशेषविदस्तैः विद्वद्भिः। बलं-शक्तिम् / व्यपेक्ष्येवशक्तितारतम्यकृतमेव / तत्-कनीयस्त्वं / न्यगादि-उदाहारि / चेत्-तर्हि / संशयः-संदेहः। किम न ?अपि त्ववश्यमनयोरयं बलवान्नवेति संशयः। ननु संशयः निर्णयेन प्रतीकार्य इत्यत्राह / प्रतिपद्वताऽपिप्रतिपद् बुद्धिः "प्रतिपज्ज्ञप्तिचेतनाः", इत्यमरः / तद्वताऽपि / सामन्तरेण-युद्धं विना। निर्णय:-अयमेव बलवान् इत्येवं निश्चयः। न-नैव / प्रमाणनीयः-प्रमाणीकर्त्तव्यः, नहि कथनमात्रेणायं बलवानिति निश्चयो युक्तः, किन्तु परीक्षयैव वयोबाहुल्यस्याकिश्चित्करत्वात, तस्मात्तेन सह मया योद्धव्यमेवेति भावः // 114 // यदप्युक्तमियं ते वधूरिति तदप्यविचारिताभिधानमित्याह-उपायताद्यापीति