________________ [122] चक्षुषी इव चक्षुषी यस्याः सा / चमूरुचक्षुः-मृगाक्षी / भ्रात्रा-सहोदरेणैव / युद्धोग्रं-युद्धे उपमुत्कटम् महायुद्धमित्यर्थः / अवेक्ष्य-दृष्ट्वा / त्वां न लज्जिष्यते किम्-अपि त्ववश्यं लजिष्यते, स्वभ्रात्रा युद्धस्य नितान्तमनुचितत्वादिति भावः // 109 // अथ सचिवोक्तमुपसंहरति-तत्त्वमितितत्त्वं निवर्तस्व गुरोनिदेशं, मन्यस्व संमानय नः स्ववाचा / भृत्या हि नान्यं प्रतिवाक्यदानात्, स्वामिप्रसादं परमामनन्ति // 110 // व्याख्या-तत्-तस्माव, पूर्वोक्ताद्धेतोः / त्वं, निवर्तस्व-विरम, युद्धादिति शेषः / गुरोः निदेशम्आझां। मन्यस्व-स्वीकुरु, तथा / न:-अस्मान्, सचिवान् / स्ववाचा-निजोक्त्या स्वीकारात्मिकया / समानय-सत्कारय / ननु वाण्यैव किं सत्कार्यः, न पुनद्रव्यादिना / तत्राह-हि-यतः / भृत्याः-अनुजीविनः।। प्रतिवाक्यदानात्-प्रतिवाक्यमुत्तरं तस्य दानादर्पणाद् / भन्यं-भिन्नं। परम्-उत्कृष्टं। स्वामिप्रसादंम्वामिनः प्रसादं प्रसन्नतां / न आमनन्ति-मन्यन्ते / उत्तरदानमेव मयि प्रसाद इति भावः // 11 // अथ कुमारस्य तत्प्रत्युत्तरमाह-श्रुत्वेतिश्रुत्वा तदोयं वचन कुमार, प्रत्युत्तरं सस्मितमाह स स्म / युद्धाद्धि वीरव्रतदीक्षितानां, कीर्तिश्रियः सप्रसरं चरन्ति // 111 // व्याख्या-स-मन्त्रिप्रार्थितः / कुमार:-इन्दुषेणः। तदीयं-सचिवानां। बचनं-वाक्यं / श्रुत्वा-आकर्ण्य / सस्मितं-ईषद्धसितसहितम्, एतेन मन्त्र्युक्ते निःसारता सूचिता / प्रत्युत्तरं-प्रतिवचनं / बाह स्म-कथितवान्, किन्तदित्याह / वीरव्रतदीक्षितानाम्-वीरस्य शूरस्य व्रतं कर्त्तव्यं तत्र दीक्षितानां गृहीतदीक्षाणां, जनानां / युद्धाद् हि-एव / कीर्तिश्रियः-कीर्त्तयः यशांसि च श्रियः सम्पत्तयश्च / सप्रसरंसविशेषं यथा स्यात्तथा / चरन्ति-प्रसरन्ति, अतः युद्धाद मम निवारणं कीर्तिश्रीभ्य एव निवारणमित्यतस्तत्तव न युक्तमिति भावः // 11 // यद्यपि उक्तं सा वेश्येति, तदपि न विचार्योक्तमित्याह-अशिक्षीति--- अशिक्षि यस्याः किल कामविद्या, भवद्भित्क्रान्तशिशुत्वयोगैः / विगीयते सा यदि वारनारी, पूज्यस्तदाध्यापक एव किं कः 1 // 112 //