________________ [ 121 ] यदर्थ युयुत्ससे सा प्रामापि नेत्याह-सतामितिसतां तु वेश्यास्पृहयालुतायाः कथाऽप्यहो नैव विधातुमिष्टा / लाभ समाशङ्कय तदीयमारा-घुयुत्ससे त्वं किमनेन धीर ! // 107 // व्याख्या–सतां-सत्पुरुषाणां / तुः-अरुचौ / वेश्यास्पृहयालुतायाः–वेश्यायां वाराङ्गनायां या स्पृहयालुता कामना तस्याः / कथा-चर्चा | अपि, विधातुं-कर्तुं / नैव इष्टा–युक्ता, तथा सति सत्त्वव्याघातादिति भावः / अहो-इति आश्चर्ये ! धीर !-धीमन् / तदीयं-वेश्यासम्बन्धि / लामम् आरात्-समीपम् "आराद् दूरसमीपयोः” इत्यमरः / समाशय-वितर्कथ, इयं मम स्याद्वा नेत्येवम् सन्दिा / त्वमनेनस्वकनिष्ठेन / किं युयुत्ससे योद्धम् इच्छसि, नैतदुचितमिति भावः / यस्याः कथाऽप्यनुचिता तदर्थ युद्धं तु नितान्तमनुचितम्, तदपि स्वभ्रात्रेति किं वक्तव्यम् इति भावः // 10 // अथापत्त्यन्तरमाह-'कनीयस' इतिकनीयसो यत्र मनः प्रसक्तं, सा ते वधूस्तदयिताग्रजत्वात् / सुता वधूश्वापि समे प्रपन्ने, विभो ! कुलाचारविचारविद्भिः // 108 // व्याख्या कनीयसः-कनिष्ठस्य भ्रातुः / यत्र-स्त्रियां / मनः, प्रसक्तं-लग्नं। सा-स्त्री। तेतव / वधू: स्नुषैव / “जाया सूनोः स्नुषा जनी वधूः” इति हैमः / कुत इत्याह / तद्दयिताग्रजत्वात्-तस्याः स्त्रियः दयितः पतिः, स्वकनिष्ठभ्राता, तदनजत्वात् हेतोः / “ज्येष्ठो भ्राता पितुः सम” इत्युक्तरिति भावः / विभो !प्रभो ! कुलाचारविचारविद्भिः-कुलस्य सद्वंशस्याचारः व्यवहारस्तस्य विचारमौचित्यानौचित्यविवेकं विदन्तीति तैः कुलाचारमर्मज्ञैः / सुता-स्वकन्या। वधूः-स्नुषा / चापि समे-तुल्ये। अपने स्वीकृते / एवञ्च सुतायामिव तस्यां तवानुरागो नितान्तमनुचित इति भावः / / 18 / / साऽपि त्वामेवं सति परिहसेदित्याह-उपागमदितिउपागमत्त्वां परिणेतुमेषा, बलस्य पुत्री स्वजनेन सार्द्धम् / भ्रात्रैव युद्धोग्रमवेक्ष्य सा त्वां, लजिष्यते किं न चमूरुचक्षुः // 109 // व्याख्या-एषा-वर्तमाना। बलस्य-तदाख्यस्य राज्ञः / पुत्री-कन्यका / स्वजनेन-निजपरिजनेन / सार्द्धम्-सह ' त्वां-परिणेतुं स्वयंवरीतुम् / उपागमत्-आगता। सा-आगता। चमूरुमं गः तस्य