________________ [120 / अथ तत्रगतानां तेषां कर्त्तव्यमाह-ज्येष्ठ इतिज्येष्ठो विवेकीति पुरेन्दुषेणं विनम्य बद्धाञ्जलयोऽथ तेऽपि / व्यजिज्ञपन विज्ञतमाः कुमारं, सारं यथा भूमिभुजोपदिष्टम् // 104 // व्याख्या-अथ-गमनानन्तरम् / ते–सचिवाः / अपि ज्येष्ठः-ज्यायान् / विवेकी-विचारवान्, वयोबाहुल्यादिति भावः / इति-हेतोः / पुरा-प्रथमम् / इन्दुषेणं विनम्य-प्रणम्य / बद्धाञ्जलयः-बद्धः विहितः अञ्जलिः यः ते तादृशाः सन्तः / विज्ञतमा:-बुद्धिमन्तः सचिवाः / यथा- येन प्रकारेण / भमिभुजा-राज्ञा। सारम्-उत्कृष्टं वचः। उपदिष्टम्-आज्ञापितम् तदिति शेषः / कुमारम्-इन्दुषेणं / व्यजिज्ञपन्-विज्ञापयाश्चक्रुः // 14 // अथ मन्त्रिण: उपदेशप्रस्तावमाह-यत्त्वामितियत्त्वां कुमार ! प्रतिपादयाम-स्तदत्र न थूणमवेक्षणीयम् / हितं स्वतोऽपि प्रवदन्ति भृत्या, वाच्यं पुनः स्वामिनिदेशतः किम् // 105 // व्याख्या-कुमार !-राजपुत्र ! अत्र-युद्धविषये / यत्-किंचित्। त्वां-भवन्तं / प्रतिपादयामः-उपदिशामः, तन्निवेदनम् / क्षणम्-अनुचित / न अवेक्षणीयम्-अनुचितम् तवैतदित्येवं न विचारणीयमित्यर्थः / ननु कुतस्तवोपदेशस्यौचित्यमिति चेत्तत्राह / भृत्याः-अनुजीविनः / स्वतः--आत्मना / अपि, हितं--पथ्यं / प्रवदन्ति-कथयन्ति, अन्यथा स्वामिभक्तिप्रमोषो भवेदितिभावः / पुनः स्वामिनः-भर्तुः / निदेशत:-आज्ञातः / कथयन्ति--इति। किं वाच्यम्-स्वामिनिदेशतस्तु हितं कथयन्त्येवेति भावः // 105 / / ___ अथ सचिवोक्तं प्रपञ्चयति-कुमारसारेतिकुमारसारावहितोऽस्मदीयं, वाक्यं समाकर्णय तावदेतत् / कनीयसा स्वेन सहोदरेण युद्ध्वा समं, केन तताऽत्र कीर्तिः / / 106 // व्याख्या-कुमारसार !--कुमारश्रेष्ठः ! अवहितः--अप्रमत्तः सन्, प्रमादे तु वचोगुणग्रहणासंभव इति भावः / तावत् अस्मदीयम्-अस्माकम् / एतद्-वक्ष्यमाणं / वाक्यं- वचनं / समाकर्णय-शृणु / किं तव वचनमिति चेत्तत्राह / कनीयसा--कनिष्ठेन / स्वेन-निजेन / सहोदरेण-सहजभ्रात्रा। समं-सह / युवा-विगृह्म / केन-जनेन / अत्र-संसारे / कीर्तिः–यशः / तता-विस्तारिता ? न केनाऽपीत्यर्थः / अतस्तव तेन सह युद्धेऽकीर्तिरेव, सा चानुचितेति भावः // 106 / /