________________ [ 119 ] सुभृत्यः-स्वामिहितचिन्तकैः, परिचारकैः / भूमीपतये-राज्ञे / त्वरितं-शीघ्र / न्यवेदि-वियपितम् / अथवा-यतः / तां-तादृशीं / दुरुदर्कवाता-दुरनिष्टः उदर्कः उत्तरकालीनपरिणामः यस्यास्तां वार्ता प्रवृतिं / के प्रजानते-विदन्ति, न केऽपीत्यर्थः, अनन्तमतिं दर्शनार्थ गतयोस्तयोरकस्मादेव युद्धप्रवृत्तेरिति भावः // 10 // अथ राज्ञः प्रवृत्तिमाह-आकार्येतिआकार्य राजाऽपि तदैव सर्वान्, रहस्यमात्यान सुतयोस्तदीदृक् / अकार्यमावेद्य निवर्तनाये, समादिदेश प्रतिकारसाध्यान् // 102 // व्याख्या राजा-श्रीषणः / अपि तदैव-तत्कालमेव, न तु विलम्ब्य, अनवसरादिति भावः / सर्वान-कार्यगौरवादिति भावः / अमात्यान-मन्त्रिणः / आकार्य-आहूय / रहसि-एकान्ते, न तु सदसि, अनौचित्येन तादृशवार्ताया गोपनीयत्वादिति भावः / सतयोः-स्वपुत्रयोः / तद्-भृत्यकथितम् / ईदृकइत्थं प्रकारम् / अकार्यम्-अनुचितानुष्ठानम् / आवेद्य-कथयित्वा / प्रतिकारसाध्यान-प्रतिकारः युद्धाद् द्वयोनिवर्त्तनम् साध्यम् येषां ते तान् तादृशान् उपायविदुरान् / निवर्तनायैः-वारणार्थ / समादिदेश-आज्ञप्तवान्, युद्धात्तौ निवारयेत्येवमिति // 12 // अथ मन्त्रिणः प्रवृत्तिमाह-रसापतेरितिरसापतेस्तं शिरसा निदेशं, निधाय जग्मुः सचिवाः समीपम् / कुमारयोः कङ्कटमण्डलाग्रसंयुपरीवारपरीतयोस्ते // 103 // व्याख्या-रसापतेः-रसा पृथ्वी “मेदिनी रसा” इति हैमः / तस्याः पतिस्तस्य, महीपतेः / तं-निवारणरूपं / निदेशम्-आज्ञां / शिरसा-मस्तकेन, “उत्तमाङ्गं शिरः शोषं मूर्धा ना मस्तकोऽस्त्रियाम्" इत्यमरः / निधाय-स्वीकार्य, शिरो नमयित्वा स्वीकार्येत्यर्थः / ते-प्रतिकारसाध्याः / सचिवा:-मन्त्रिणः / कण्टकमण्डलायसंयुपरीवारपरीतयो:-कङ्कटः वर्म “सन्नाहो वर्म कङ्कटः” इति हैमः / मण्डलानः कृपाणः 'करवालनिविंशकृपाणखगाः, तरवारिकौक्षेयकमण्डलापा” इति हैमः / तौ संयुनतीति स चासौ परीवारः सेना परिच्छदः तेन परीतयोः परिवेष्टितयोः, सन्नद्धसैनिकान्वितयोः यद्वा कण्टकेन मण्डलायः करवालः "मण्डलामः करवाल: कृपाणवत” इत्यमरः, तत्संयुक् तत्सङ्गतः परीवारः खड्गकोशः “परीवारः खङ्गकोशे परिच्छदे इत्यमरः / "प्रत्यांकारः परीवारः कोशः खगपिधानकम्” इति हैमः / तेन च परीतयोः युक्तयोः / कुमारयो:-राजपुत्रयोः / समीपं जग्मुः // 10 //