________________ [ 118 ] सौभ्रात्रसम्बन्धं-सुभ्रातुरयमिति सः सौभ्रात्रः स चासो सम्बन्धश्च तम् आवां सहोदरौ इत्येवमपि / अचिन्तयित्वा रभसा-अविवेकेन / युद्धप्रतिज्ञां-युद्धाय प्रतिज्ञां सङ्गरं / व्यधत्ताम्-अकुरुताम् “प्रतिज्ञाऽऽगूश्च सङ्गरः” इतिहैम. // 9 // ____ अथ तयोः युद्धप्रकारमाह-स इन्दुषण इति-- स इन्दुषेणः खलु बिन्दुषेणं, बभाण हत्वा युधि संप्रहारैः। भवन्तमेतां यदि नात्मकान्तां, करोमि तन्नाम न तातजातः // 19 // व्याख्या-स:--ज्येष्ठः / इन्दुषेणः, बिन्दुषेणं--कनिष्ठं / बभाण-कथयामास / खलु--किमित्याह / युधि-रणे / सम्प्रहारैः-शस्त्रैः / भवन्त--त्वां, बिन्दुषेणं / हत्वा--निपात्य / यदि एताम्-अनन्तमतिम् / आत्मकान्ताम्--आत्मनः स्वस्य कान्तां भार्या / न करोमि--तत् तदा / नाम - इत्यलीके तातात् स्वपितुः जातः उत्पन्नः तातजात:-न, भवामि इति शेषः // 19 // अथ बिन्दुषेणस्य प्रतिवचनमाह-जगाविति - जगौ कनीयानपि बिन्दुषेण-स्तमिन्दुषेणं स्मरविह्वलाङ्गम् / - सहोदरस्ते न भवामि चेत्त्वां, जयामि नाहं रणमादधानः // 10 // व्याख्या-कनीयान्-कनिष्ठः बिन्दुषेणः / अपि तं-ज्येष्ठं / स्मरविलाङ्ग- स्मरेण कामावेशेन विह्वलम् व्याकुलमङ्गम् यस्य तमस्वस्थशरीरम् इन्दुषेणं, जगौ-जगाद, किमित्याह / रणं--युद्धम् / आदधाना-कुर्वाणः / अहं चेद्-यदि / त्वां-भवन्तं / न जयामि-अभिभावयामि, तदेति शेषः / ते-तव / सहोदरः-सहजः स्वतातजात इति यावत् / न भवामि // 10 // . अथ भूमिपतेस्तद्वार्ताश्रवणमाह-अभूतपूर्वमिति - अभूतपूर्व परिभाव्य युद्धं, तयोर्भविष्यत्त्वरितं सुभृत्यैः / न्यवेदि भूमीपतयेऽथवा के, प्रजानते तां दुरुदर्कवार्ताम् // 10 // . व्याख्या-तयोः-द्वयोः, भ्रात्रोः / भविष्यद्-सम्पत्स्यत् / युद्धं-न कदापि पूर्व मूतमित्यभूतपूर्व-विलक्षणम्, नहि भ्रातरौ कदापि एकत्रीनिमित्तं अयुध्येतामिति भावः / परिभाव्य-विचार्य /