________________ [ 117 ] भागीरथीं यां शिरसा गिरीशो-ऽधत्ताच्युतस्तामयमात्तगर्वः / पदापि नैव स्पृशतीति रुष्टा, लक्ष्मीरियं लक्ष्मविवर्जिता किम् // 96 // व्याख्या-यां भागीरथीं-गङ्गां / गिरीशः-शिवः / शिरसा-मस्तकेन / अधत्त-धृतवान् / तांतादृशीं गङ्गामतिपूज्याम् / आत्तगर्वः--आत्तः गृहीतः गर्वोऽभिमानः येन स तादृशः अभिमानी। अयमच्युतः-विष्णुः / पदा-चरणेनापि, विष्णुचरणोद्भवा गङ्गेति पुराणम् / नैव स्पृशति इति-हेतोः / रुष्टाकुपिता, अत एव / लक्ष्मविवर्जिता--लक्ष्मणा स्वचिह्न कमलावासादिना, विवर्जिता-रहिता, कुपितो हि स्वस्वरूपं जहातीति भावः / लक्ष्मीः इयं किम् ?-सजातीयस्त्रीसन्मानं नाकारि विष्णुनेति लक्ष्मीः सरोषाऽजनि, अत्र चागतेति भावः // 16 // अथ द्वयोनिश्चयमाह -निमिष्यदितिनिमिष्यदक्षत्वविशेषलिङ्गा-नुवृत्तिमात्रेण विबुध्य नारीम् / अन्योन्यसंस्पर्द्धितयेव बाढं, तस्यां मनो द्वावपि तौ न्यधत्ताम् // 17 // व्याख्या - निमिष्यदक्षत्वविशेषलिङ्गानुवृत्तिमात्रेण-निमिष्यत् निमेषं प्राप्नुवत अक्षिनयनं यस्याः तद्भावस्तत्त्वम्, “सक्थ्यक्ष्णः स्वाङ्गे' / 7 / / 3 / 126 / इति टप्रत्ययो बहुब्रीहेः / तद्रूपस्य . विशेषस्य रम्भादिविलक्षणस्य, देवयोनेर्निनिमेषत्वादिति भावः, लिङ्गस्य मानवचिह्नस्य अनुवृत्तिः सम्बन्धः तन्मात्रेण, नत्वन्येनापि लिङ्गेन, प्रकारान्तरेण सादृश्यस्यैव सत्त्वादिति भावः / तां नारी-मानुषीं / विबुध्य-ज्ञात्वा / तौ द्वावाप-राजपुत्रौ / अन्योऽन्यसंस्पर्द्धितया-अन्योन्यं संस्पर्धिता पराभिभवेच्छा तद्भावम्तया परस्परेjया। इव तस्याम्-अनन्तमत्यां। बाढं--भृशम् / मनः-हृदयं / न्यधत्ताम्-निवेशयामासतुः // स्पर्धाऽभावेऽपि तदात्मना सम्भावनादुत्प्रेक्षाऽलङ्कारः // 97 / / अथ जातरागयोस्तयोर्युद्धप्रतिज्ञामाह-लज्जामितिलजां परित्यज्य परिच्छदस्य, सौभ्रात्रसम्बन्धमचिन्तयित्वा / तस्याः कृते तावपि जातरागौ, युद्धप्रतिज्ञां रभसा व्यधत्ताम् // 98 // व्याख्या-तस्या:-अनन्तमत्याः कृते-प्राप्तिहेतोः, जातः रागः आसक्तिः आप्रहो वा ययोस्तो जानसगौ, तो द्वावपि-राजपुत्रौ / परिच्छदस्य--परिजनस्य / लज्जा-त्रपां / परित्यज्य-त्यक्त्वा /