________________ [ 116 ] सञ्जातकोपेन सुराधिपेन, प्रदत्तशापेन निपातिता किम् ? कटाक्षविक्षेपलवेन देवान, व्यामोहयन्ती सहसोर्वशीयम् // 13 // व्याख्या-कटाक्षविक्षेपलवेन--कटाक्षस्याक्षिविकूणितस्य विक्षेपः इतस्ततः प्रचालनं तल्लवेन लेशेन "लवलेशकणाणव" इत्यमरः / देवानपि सहसा व्यामोहयन्ती--मूर्च्छयन्ती, अत एव / सञ्जातकोपेन-सञ्जातः कोपः यस्य तेन, स्वस्मिन्नननुरागप्रतीतेरिति भावः / सुराधिपेन--सुराणामधिपेनेन्द्रेण / प्रदत्तशापेन--प्रदत्तेन शापेन। निपातिता--पृथिव्यां च्याविता। इयं--दृश्यमाना / उर्वशी-तदाख्याप्सरोविशेषः / किमिति--वितर्के // 93|| अथ तयोर्वितर्कान्तरमाह-त्रपावतीनामिति - त्रपावतीनां कुलवालिकाना-मस्माकमन्तः किमियं करोति / इतीव देवीभिरमानितेयं, भ्रष्टा दिवो वा कथमुवंशी न // 94 // व्याख्या-त्रपावतीनां--सलज्जानाम्, लज्जा भाय विभूषणमित्युक्तेरिति भावः / कुलबालिकानां'कुलवातिकानाम्' इति पाठे तु कुलवाचालानां, कुलवधूनाम् / अस्माकम्, अन्तर्मध्ये, इयं--वेश्या, निर्लज्जा / किं करोति--सलज्जासु तासामेव अवस्थानमुचितम्, न तु निर्लज्जानां वेश्यादीनां, संसर्गदोषसंभवादिति भावः / इति--हेतोः। इव देवीभिः--देवत्रिभिः / अमानिता-तिरस्कृता, इव अतएव / दिवः--स्वर्गात् / भ्रष्टा--पतिता / वेति पूर्वश्लोकोक्तपक्षान्तरे / इयमुर्वशी कथं न ? अपि तु अवश्यं सैव, कथमन्यथा अलौकिकरूपलावण्यादिसम्भवः इति भावः, अत्रासम्बन्धे सम्बन्धरूपातिशयोक्तिः // 9 // उपेक्ष्य मां चन्द्रभृताऽपि भा, गङ्गा धृता मूर्ध्नि विचिन्त्य चेति / अजाततोषा विहिताधिरोषा, गौरी किमेषा समुपागताऽत्र ? // 15 // व्याख्या-चन्द्रभृता-चन्द्रशेखरेण शिवेन, एतेनातिमहत्त्वं सूचितम् / मा-पत्या। अपि-अपिना पत्युरन्यस्त्रीपरिष्वजानौचित्यं व्यन्यते / मां-पतिव्रताम् / उपेक्ष्य-अनादृत्य / मूर्ध्नि-मस्तके / गङ्गा धृतास्थापिता / इति च-पूविकल्पसमुच्चये / विचिन्त्य-विचार्य / अजाततोषा-असन्तुष्टा, अत एव / विहिताधिरोषा-विहितः अधिकः रोषः क्रोधः 'कोपक्रोधामर्षरोषप्रतिघाः,' इत्यमरः, यया सा तारशी / एपादृश्यमाना / गौरी-पार्वती। अत्र सापागता किम् ?-गौरीतुल्येयमाकृत्येति ध्वनिः // 15 //