________________ [115] व्याख्या-तया-श्रीकान्तया / सह, अनङ्गराजस्य-अनङ्गश्चासौ राजा च तस्य कामदेवस्य / जङ्गमराजधानी- जङ्गमा गतिमती या राजधानी निवासनगरी / न्यायम्-उचितं। सहायम्-अनुजीविनं "सहायोऽभिचरोऽनोश्च जीवी-गामी-चर-प्लवाः” इति हैमः / प्रतिरूपयन्ती--कुर्वाणा / द्विधा--प्रकारद्वयेन नामतः अर्थतश्चापि / अनन्तमति:--अनन्ता निःसीमा मतिः बुद्धिः यस्याः सा तन्नाम्नी च / वाराङ्गना समाजगाम-आययौ // 9 // सम्प्रति तस्याः रूपं वर्णयति-रूपं यदीयमितिरूपं यदीयं समवेक्ष्य धीरे-नैवोर्वशी कैश्चिदमानि मान्या / अगण्यलावण्यगुणाभिरामं, रम्भापि नादृश्यतया विवा (युग्मम् ) // 11 // व्याख्या-यदीयम्--अनन्तमतिसम्बन्धि / अगण्यलावण्यगुणाभिराम--अगण्यमवर्णनीयम् यल्लावण्यं गुणाश्च यद्वा लावण्यमेव गुणः तैस्तेन वा अभिरामं मनोहरं / रूपम्--आकारम् / समवेक्ष्यविलोक्य / कैश्चिद धीरः-पण्डितैः / उर्वशी-स्वर्वेश्या / मान्या--एतदपेक्षया मानयोग्या / नैवामानिमेने तथा / रम्भाऽपि-तदाख्यस्वर्वेश्या / अदृश्यतया हेतुना / न विवा-वर्णनीया, अस्याः दृश्यत्वाव, एवञ्च रम्भोर्वशीभ्यामपीयमधिकसुन्दरीति व्यतिरेकालङ्कारः।९१॥ अथ श्रीषेणपुत्रप्रवृत्तिमाह-श्रीषेणेतिश्रीषेणभूवासवसम्भवौ तां, नेत्रातिथीकृत्य कृतार्थभावम् / स्वस्यादधानौ हृदये वितर्क-मेतादृशं चक्रतुरेककालम् // 12 // व्याख्या-श्रीषेणभूवासवसम्भवौ--श्रीषणश्चासौ भूवासवः महीन्द्रश्च श्रीषेणमूवासवः तस्मात्सम्भव उत्पत्तियोस्तौ इन्दुषेणबिन्दुषेणौ / ताम्-अनन्तमति, नेत्रातिथीकृत्य, नेत्रयोः अतिथीकृत्य गोचरी कृत्य दृष्ट्रेत्यर्थः / स्वस्य-स्वकीये / हृदये-मनसि / कृतार्थभावम्-कृतार्थस्य कृतकृत्यस्य भावस्तं कृतकृत्यताम्, '. अप्रतिमहर्षमित्यर्थः / आदधानौ एककालम्--युगपत् / एतादृशं-वक्ष्यमाणप्रकारं / वितर्क-विकल्पं / : चक्रतुः // 92 // . अथ तद्वितक्रमेवाह-सञ्जातकोपेनेति . आ