________________ [ 114 ] अथ श्रीकान्तायाः प्रवृत्तिं त्रिभिः वर्णयन् रत्नपुरप्राप्तिमाह-संवाह्यमानेत्यादिसंवाह्यमाना वचनापि बाढ़, श्रमं विनाऽपि प्रयतालिवगैः / प्रवीज्यमाना कदलीदलोधैः, कचिद् भुजिष्याभिरितस्ततोऽपि // 87 // कर्म प्रकुर्वाणमनात्मनीनं, सखीजनं कापि निवर्तयन्ती / प्रवर्तयन्ती कचनापि दासी, राशीकृतानेकगुणप्रकारा // 8 // प्रौढप्रतापाऽनुचरानुयाता, निदेशमात्रप्रभवत्प्रयोगा। नरेन्द्रकन्या शिबिकाधिरूढा, प्रापत् क्रमाद्रत्नपुरं पुरं सा // 89 // व्याख्या-क्वचनापि-कुत्रापि / श्रमं–क्लमं / विनाऽपि-अध्वखेदाऽभावेऽपि / प्रयतालिवर्ग:-स्वभक्तिसूचनाय प्रयतैः प्रवृत्तिशीलैः आलीनां सखीनां वगैः समूहैः, 'आलिः सखी वयस्या” चेत्यमरः / बाढं-भृशम् / संवाद्यमाना-शुश्रूष्यमाणा / क्वचित् भुजिष्यामिः-दासीभिः / इतस्ततोऽपि-परितः / कदलीदलौधैःकदल्याः रम्भायाः दलानि पत्राणि तेषामौघैः समूहैः, 'कदलीवारणबुसा रम्भा मोचांसुमत्फला' इत्यमरः / प्रवीज्यमाना-पवनायमाना // 87 // क्वापि अनात्मनीनम्--आत्मनो हितमात्मनीनं नात्मनीनं अनात्मनीनम् / अहितं / कर्म-कृत्यं / प्रकुर्वाणं सखीजनं-सहचरीवर्ग। निवर्तयन्ती-निवारयन्ती। एतेन तस्याः सख्यादिषु अप्रमादः सूच्यते / क्वचनाऽपि दासीं-चेटीं / प्रवर्तयन्ती-नियुञ्जन्ती। राशीकृतानेकगुणप्रकाराराशीकृतः सश्चितः अनेकानां गुणानां प्रकारः विशेषः यया सा तादृशी // 8 // प्रौढप्रतापा-प्रौढ़ः इतरानभिभवनीयःप्रतापः प्रभावः यस्याः सा तादृशी / अनुचरानुयाता-अनुचरैः परिचारकैः अनुयाता अनुस्रियमाणा, अत एव निदेशमात्रेण आज्ञामात्रेण नतु पुनः पुनः नियोगेन प्रभवन् सम्पद्यमानः प्रयोगः कार्य यस्याः सा / निदेशमात्रप्रभवत्प्रयोगा, शिविकां-याप्ययानम् 'शिबिका याप्ययाने' इति हैमः / अधिरूढ़ाअधिष्ठिता / सा-प्रस्तुता / नरेन्द्र कन्या-राजपुत्री, श्रीकान्ता / क्रमात् रत्नपुरं-तदाख्यं नगरं / प्रापत्उपागमत् // 89 // अथ तया सहागतां वाराङ्गनां वर्णयति-तयेति _ तया सहानन्तमतिर्द्विधाऽपि, वाराङ्गना जङ्गमराजधानी। अनङ्गराजस्य समाजगाम, न्यायं सहायं प्रतिरूपयन्ती // 9 //