________________ [ 113 ] स कोऽपि भूमीपतिरेव नासीत्, समावजन्त्यां बलराजपुत्र्याम् / पथ्युनता रत्नपुरेन्द्रतुष्ट्यै, न तोरणश्रेणिरबन्धि येन // 84 // व्याख्या-स-तादृशः / कोऽपि-अनिर्दिष्टनामा / भूमीपतिः-राजा / नासीदेव-नाभूदेव / येनराज्ञा ! बलराजपुत्र्यां-श्रीकान्तायां / समावजन्त्याम्-आगच्छन्त्यां सत्यां / रत्नपुरेन्द्रस्य-श्रीपेगस्य / तुल्यै–प्रसादाय, तदतिथिसत्कारात्तत्प्रभावातिशयख्यातेः तुष्टिरिति भावः / पथि-मार्गे / उन्नता-उच्चा / तोरणश्रेणिः-तोरणानां श्रेणिः पंक्तिः / न अबन्धि-बद्धा न, अपि तु सवैरेव बढेवेति भावः // 84 // सम्प्रति तस्याः परिजनकर्तृकपरिचय प्रकारमाह-मुक्ताफलक्षोदेति - मुक्ताफलक्षोदसहोदराणि, पयांसि भूयांसि भवन्ति यत्र / निवेशयामासुरपेतबाधा- स्तत्रैव गुप्यद्गृहमेतदीयाः // 85 // व्याख्या-यत्र-स्थाने यस्मिन् / मुक्ताफलक्षोदसहोदराणि-मुक्ताफलानां मौक्तिकानां क्षोदश्चूर्णम् तस्य सहोदराणि तत्त्तुल्यस्वच्छानि तथा / भृयासि-बहुपरिमाणानि, अल्पत्वे परिजनपरिचारकादिबाहुल्याव असौकर्य स्यादिति भावः / पयांसि-जलानि / तत्रैव-महाहृदादिसमीप एव / अपेतबाधाः-अपेता विनष्टा बाधा अत्र न वस्तव्यमित्यादिप्रकारप्रतिरोधः येषां ते तादृशाः / एतदीया:-परिजनादयः / गुप्यद्गृहमगुप्यच्च तद् गृहम् च तादृशं गुप्तगृहमुपकार्यादि / निवेशयामासुः-स्थापयामासुः / / 85 // अथ निवासानन्तरं तत्र सर्वापेक्षितवन्तुसौलभ्यमाह-वणिगितिवणिग्जनाध्यासितहट्टवीथी, लभ्याखिलक्रय्यकदम्बकत्वात् / तत्रोपकार्यारचिताधिवासाः, स्मरन्ति वेश्मानि न केचन स्म // 86 // व्याख्या-तत्र-हृदादितटे। उपकार्यारचिताधिवामा:-उपकार्यायामुपकारिकायाम् “उपकारिकोपकार्या” इति हैमः / पटमण्डपे इत्यर्थः / रचितः कृतः अधिवासः यैस्ते तादृशाः / केचन-केऽपि / वणिग्जनाध्यासितहट्ट वीथीलभ्याखिलक्रय्यकदम्बकत्वात्- वणिराजनैः व्यवहर्तृभिरध्यासिता सम्पन्ना या हट्टवीथी पण्यवीथिका तस्यां लभ्यं प्राप्यम् अखिलं समस्तं किं तदित्याह क्रय्याणां क्रेतारः क्रीणीयुरितिबुद्धथा आपणे प्रसारितानां वस्तूनां कदम्बकं समूहः, तस्य भावः तत्त्वं तस्मात् “वृन्दं निकुरम्वं कदम्बकम्," इत्यमरः / हट्टे अपेक्षितसर्ववस्तूपलब्धेः / वेश्मानि- गृहाणि / न स्मरन्तिस्म-असौकर्ये हि गृहस्मरण म, सर्ववस्तुसौकर्ये तु तानि विस्मरन्ति गृहस्मरणं नैव भवतीति भावः / एतेन प्रबन्धवैश्यमुक्तम् ॥८क्षा