________________ [ 112] सा यौवनोन्मेषविशेषरम्या, श्रीषेणभूमीन्द्रतनूभवाय / गरीयसे प्रैषि वसुन्धरेशा. स्वयम्वराऽमा सुपरिच्छदेन // 81 // व्याख्या-यौवनोन्मेषविशेषरम्या-यौवनस्योन्मेष: विकाशः यौवनोन्मेषः तद्पो यो विशेषस्तेन रम्या मनोहरा / सा-श्रीकान्ता / स्वयंवरा-स्वयं वृणुते पतिमिति स्वेच्छया पतिवरणोद्यतेत्यर्थः। वसुन्धरेशाराज्ञा बलनृपेण / सुपरिच्छदेन-उत्तमपरिवारेण / अमा-सह / गरीयसे-महते / श्रोषेणतनूभवाय-श्रीषेणपुत्राय इन्द्रुषेणाय / प्रैषि-प्रेषिता // 81 // ____ अथ तदागमनं निशम्य राज्ञः श्रीषेणस्य प्रवृत्तिमाह-राजाधिराजाङ्गजमितिराजाधिराजाङ्गजमिन्दुषेणं, स्वयंवरीतुं बलराजपुत्री / इयं समेतीति नृपैनिशम्यो-पदाभिरापूरि पदव्युदारैः // 2 // व्याख्या-राजाधिराजाङ्गजम्-राजसु अधिको महान् राजा राजाधिराजः तस्याङ्गजं पुत्रम् / इन्दुषेणं-तन्नामानं / स्वयंवरीतुं-स्वयंवरणाय / बलराजपुत्री-बलाख्यश्चासौ राजा च बलराजः, तस्य पुत्री कन्यका / इयं-सद्य एव / समेति-आगच्छति / इति-इत्थंप्रकारं वचनं / निशम्य-श्रुत्वा / उदारैःउदारैर्महाशयैः “महेच्छे तू टोदारोदात्तोदीर्णमहाशयाः महामना महात्मा च” इति हैमः / नृपः-आदरार्थे बहुवचनम्, यद्वा तदधीनैः अन्यैः नृपैः, स्वस्वामिभक्तिसूचनाय / उपदाभिः-उपहारैः तोरणस्रजादिभिः / पदवीमार्गः। 'अयनं वर्त्म मार्गाऽध्वपन्थानः पदधी सृतिरि'त्यमरः / आपूरि-पूरिता भूषितेत्यर्थः / / 82 // . अथ तद्विषये नृपाणां चित्तवृत्तिमाह-स्वयंवरार्थेतिस्वम्बरार्थ स्वयमेव यान्ती, श्रुत्वा नृपैस्तां द्वितयं व्यबोधि / विज्ञानभङ्गी . बलराजपुत्र्यां, सौभाग्यभङ्गी प्रवरेन्दुषेणे // 83 // : व्याख्या-तां-श्रीकान्तां / स्वयम्बरार्थ स्वयमेव-आत्मनैव, न तु प्रार्थनादिना। यान्तीगच्छन्तीं / श्रुत्वा नृपैः-राजलोकैः / द्वितयं-द्वयं / व्यबोधि-ज्ञातम्, किन्तद्वयमित्याह / बलराजपुत्र्यांश्रीकान्तायां / विज्ञानभङ्गी-विज्ञानस्योत्कृष्टज्ञानस्य भङ्गी विलासः, योग्यस्य वरणादं / प्रवरेन्दुषेणे-प्रवरः उत्तमः य इन्दुषेणः तस्मिन् / सौभाग्यभङ्गो-सौभाग्यस्य उत्तमभाग्यवत्त्वस्य भङ्गी, नान्यथैतादृशी कन्यका स्वयं वृणीतेति भावः / / 83 // ... . अथ मार्गे नृपैस्तत्स्वागतमाह-सकोऽपीति