________________ [111 / कोषः, तेजोलक्ष्मीवती च / बभूव, रतिः-कामदेवप्रिया / एव यद्पसौन्दर्यसखित्ववृत्या-यस्याः रूपमाकारः सौन्दर्यश्च तयोः सखित्ववृत्त्या सादृश्येनानुचरीत्वमापन्ना / रतिम्-अनुरागं / भजन्ती-कुर्वन्ती / जज्ञेबभूव, श्रीमत्या रूपं सौन्दर्यश्च दृष्ट्वा तवयमिच्छन्ती रतिप्रमाणा रतिर्बभूवेति शब्दच्छलेन सूच्यते, अत्र रतेस्तथाऽनुरागासम्बन्धेऽपि सम्बन्धोक्तः अतिशयोक्त्यलङ्कारः / / 7 / / अथ तत्कन्यापरिचयमाह तदङ्गजाज्जायत पुण्यतः श्री-कान्ता द्विधाऽपि श्रुतिवत्सदङ्गा / विद्या यदभ्यासवशात् प्रवृत्ताः, प्रसिद्धिमालम्बिषतानुपायम् // 79 // व्याख्या-तदङ्गाजा-तस्याः श्रीमत्याः अङ्गजा कन्यका। श्रुतिवत्-श्रुतिर्वेदः तद्वत् / सदङ्गा-सम्पूर्णाङ्गा, यथाहि वेदः षडङ्गः तद्वत्सा सत्पडनेत्यर्थः / यद्वा स विद्यमानं प्रशस्तं वा अङ्गमवयवः यस्यास्सा तादृशी “विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्" इत्यमरः / अथवा सन्ति शोभनानि अङ्गानि बाहादीनि उपलक्षणतयोपाङ्गानि अङ्गल्यादीनि यस्यास्सा सदङ्गा / तथा द्विधा-नामतोऽर्थतश्चापि / श्रीकान्ता-श्रीरिव कान्ता कमनीया, श्रीकान्ता नाम्नी च / पुण्यत:-सुकृतप्रभावेन, नान्यथैतादृशापत्यसम्भव इति भावः / अजायत-अभूत् / यदभ्यासवशात्-यस्याः अभ्यासवशात् शिक्षाप्रभावात् / प्रवृत्ताः-लब्धाः / विद्या:-आन्वीक्षिक्यादयः / अनपायम्-अप्रतिहतं यथा स्यात्तथा, अनुपायमिति पाठे तु अयत्नं यथा स्यात्तथा / प्रसिद्धिख्यातिम् / आलम्विषत-अशिश्रियन् / अत्र यत्नस्य हेतोरनुक्तेः प्रसिद्धेश्च कार्यस्योक्तेर्विभावनाऽलङ्कारः / / 79 / / अथ तस्याः गुणसन्निधानमाह-सा गलेतिसा बालभावेऽपि गुणैरशेषै-रेवाश्रिता प्रीतिविधित्सयैव / स्वयं समागम्य हि संगतेषु, प्रभोरजयं न च जीर्यतीह // 8 // व्याख्या-सा-श्रीकान्ता / बालभावेऽपि शैशवेऽपि सति। अशेषैः-समस्तैरेव / गुणैः-शीलादिभिः / प्रोतिविधित्सयैव-सङ्गतिकरणेच्छयैव / आश्रिता-आलम्बिता, ननु बालभावे सन्तोऽपि यौवनेअपेप्यन्ति, तबाह / हि-यतः / इह-अत्र / स्वयम्-आत्मनैव, नतूदोधकवशात् / समागम्य सङ्गतेषुकृतप्रीतियु / प्रभोः-समर्थस्य महतः / अजयं-मैत्री / नच-नैव / जीर्यति–अपैति “सौहार्द साप्तपदीनमैत्र्यजर्याणि सङ्गतम्" इति हैमः / एवञ्च यौवनेऽपि ते तासां गुणाः इति भाव // 40 // अथ तस्याः स्वयम्वरार्थ गमनमाह-सा यौवनोन्मेषेति