________________ [110 सत्यभामा / अन्तःपुराणां-शुद्धान्तानां स्त्रीणां, मुदं- हर्षम् / अर्पयन्ती-ददाना / तत्र-अन्तः पुरे / स्थितान्युषितवती, अनुप्रासः // 5 // अथ तद्विषये विशेषं विवक्षुः तदङ्गत्तया कथान्तरं प्रस्तौति-अथाऽस्तीति - अथाऽस्ति कौशाम्ब्यभिधा प्रसिद्धा, पुरी परीता कमलाविलासैः / विवर्ण्यते या कविभिः प्रवीणै-जिनेन्द्रपद्मप्रभजन्मभूमिः // 76 // ____ व्याख्या-अथेति-कथान्तरप्रारम्भे। कमलाविलासै:-कमलायाः लक्ष्म्याः विलासैः उल्लासैः / परीता-परिपूर्णा सम्पत्तिसम्पन्ना / कौशाम्ब्यभिधा-कौशाम्बी नाम्नी। पुरी-नगरी। प्रसिद्धा:- ग्ल्याता / अस्ति. या-नगरी / प्रवीणैः-निपुणैः। कविभिः पण्डितैः, “संख्यावान् पण्डितः कविः” इत्यमरः / जिनेन्द्रपद्मप्रभजन्मभूभिः-जिनेन्द्रस्य पद्मप्रभप्रभोः जन्मभूमिः उत्पत्तिस्थानम् / विवर्ण्यते-कथ्यते // 6 // अथ तद्राज्ञः परिचयमाह-तस्यामितितस्यां बलेन प्रबलो बलोऽभूद्, भूमीपतिर्भूमगुणौघभूमिः / यस्य प्रतिद्वन्द्वितयैव शंके, शक्रोऽवलारित्वविशिष्टनामा // 77 // - व्याख्या-तस्यां-कौशाम्बीपुर्या / भूमगुणौघभूमिः भूमाः प्रशस्ता बहवो वा ये गुणाः शौर्यादयः, तेषामोघः समूहः तस्य भूमिः पात्रम्, सकलप्रशस्तगुणवान्, तथा / बलेन-सेनाभिः / प्रबल:-बलवत्तरः / बल:बलनामा। भूमीपति:-राजा अमृत / यस्प-राज्ञः / प्रतिद्वन्द्वितयैव-प्रतिद्वन्द्विता प्रतिस्पर्धिता तया कृत्वैव / शक्र:-इन्द्रः / बलारित्वविशिष्टनामा–बलारित्वेन विशिष्टं बलारिरिति नाम यस्य स तादृशः, अभूदिति शेषः / शङ्के-उत्प्रेक्षे / “सुरपतिर्बलारातिरित्यमरः" // 7 // अथ तत्स्त्रीपरिचयमाह-न श्रीमती, इतिन श्रीमती तस्य बभूव नाम्ना-ऽपि श्रीमती किन्तु वधूः स्वधाम्ना / यद्पसौन्दर्यसखित्ववृत्त्या, रतिं भजन्ती रतिरेव जज्ञे // 78 // - व्याख्या- तस्य-बडनृपतेः / नाम्ना-नाममात्रेण / श्रीमती-तंभाग्नी / वधूः-भार्या / न किन्तु स्वथाम्नापि-स्वतेजसाऽपि / श्रीमती-शोमादिमती “शोमासम्पत्तिपद्मासु लक्ष्मीः श्रीरिख दृश्यते" इति