________________ [109] अथ ततः कपिलस्य गमनमाह-वितीर्यमाणमितिवितीर्यमाणं वसुधाधवेन, स्वपाणिप न स सूत्रकण्ठः / ताम्बूलमादाय करद्वयेन, स्वान्तं विनाऽगात् कुपितः स्वगेहम् // 73 // व्याख्या-वसुधाधवेन-वसुधा पृथ्वी तस्याः धवेन स्वामिना राज्ञा / स्वपाणिपोन-निजकरकमलेन, एतेनादरातिशयः, राज्ञो विनयश्च सूचितः / वितीर्यमाणं-दीयमानं / ताम्बूलं-नागवल्लीदलं। करद्वयेनपाणियुग्मेन, महता दीयमानं हस्तद्वयेन ग्राह्यमित्याचारादिति भावः / आदाय-गृहीत्वा। सः-प्रकृतः / सूत्रकण्ठः-सूत्रं कण्ठे यस्य सः द्विजः, एतेन ससूत्रकण्ठत्वादेव द्विजः, नत्वन्यतोऽपीति सूच्यते / कपिलः / स्वान्तं-मनः / विना-सत्यभामायामतिशयप्रीतेः मनः तत्रैवाभूदिति हेतोरिति भावः / स्वगेहम्-निजगृहम् / कुपितः क्रुद्धः, स्वोनिष्टसम्पत्तेरिति भावः / अगात्-ययौ, गत्यन्तराभावादितिभावः / / 73 / / अथ सत्यभामाप्रवृत्तिमाह-सा सत्यभामेतिसा सत्यभामा नृपतेरनुज्ञा-मासाद्य सद्यः प्रमदं वहन्ती। महल्लकैर्भूषितपार्श्वभागा, शुद्धान्तभूभागमलञ्चकार // 74 // व्याख्या-नृपतेरनुज्ञामासाद्य-प्राप्य / प्रमदं-हर्ष, अभीष्टसिद्धेरितिभावः “प्रमदो हर्षः” इत्यमरः / वहन्ती-धारयन्ती / सा सत्यभामा महल्लकैः-अन्तःपुररक्षकैः / भूषितपार्श्वभागा-भूषितौ शोभितौ पार्वभागौ इतस्ततो यस्याः सा तादृशी सती। सद्यः-तत्कालमेव / शुद्धान्तभूभागम्-शुद्धान्तस्य अन्तःपुरस्य "शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम्" इति हैमः। भूभागं मुवः प्रदेशम् / अलञ्चकार-भूषितवती / / 74 / / अथ तत्र स्थितायास्तस्याः चरितमाह-दुष्कर्मेतिदुष्कर्ममर्माणि विदारयन्ती, तपांसि शुद्धानि विसारयन्ती / साऽन्तपुराणां मुदमर्पयन्ती, तत्र स्थिता स्वान्तमदर्पयन्ती / / 75 // - व्याख्या-स्वान्तं-सनः, “स्वान्तं हृन्मानसं मनः, इत्यमरः / - अदर्पयन्ती-दर्परहितं. कुर्वती, अत एव / शुद्धानि-निर्निदानानि ! अहङ्कारादिभावनावर्जितानि / तपांसि बतादीनि / : विसारयन्तीतत एव च / दुधर्ममर्माणि-दुष्कर्मणः मर्माणि / विदारयन्ती-तपसा निकाचित कापि विनाशयन्ती। सा