________________ [108] इत्युपमाध्वनिः, नतु श्लेषालङ्कारः / नूनं-निश्रयेन। सदाशये-सति शोभने आशये अभिप्रायेऽपि, आधारावेययोरैक्यविवक्षया मनस्यपि। सदा सर्वदा आशये-आश्रये निजसमीपमितियावत्, 'अथाशय आश्रये' इति हैमानेकार्थः / धर्म दधानः-दानादिधर्म धारयन्, शिवपक्षे लक्षितलक्षणया वृषं वृषभं धारयन्, क्रियायां धर्मदधान इत्यत्र किमु वक्तव्यमिति सूचितम् / स ऐश्वर्यधयः ऐश्वर्येण समृद्धया अथ च ईश्वरत्वेन धुर्यः अप्रेसरः / समलोकमान्य:-समैः सर्वैर्लोकः, अथ च समेषु सर्वेषु लोकेषु लोकत्रयेष्वित्यर्थः, मान्यः पुज्यः। अभूत् // :0 // धर्म समाश्रित्य गुणाः समस्ताः, महार्यतामाप्य जगत्त्रयेऽपि / महत्तमानां श्रवणातिथित्वं, जीवाभिधानप्रथिता लभन्ते // 71 // व्याख्या-जीवाभिधानप्रथिता:-जीव इत्यभिधानं नाम वाचकं यस्य तस्मिन् जीवे आत्मनि प्रथिताः प्रसिद्धाः / गुणा-क्षान्त्यादयः विधैश्वर्यादयो वा जीवे बृहस्पतौ वा गुणाः / समस्ताः-सर्वे / धर्म समा. त्रित्य-सद्धर्माश्रयणं कृत्वा / जगत्त्रयेऽपि महार्यताम्-अमूल्यताम् / आप्य-अधिगत्य / महत्तमानाम्अतिमहतां / श्रवणातिथित्वं-श्रवणानां कर्णानाम् अतिथित्वं गोचरत्वं लभन्ते प्राप्नुवन्ति, जीवगुणा अपि सद्धर्माचरणेनैवामूल्यत्वेन सद्भिराश्रीयन्ते, नान्यथा, अत एव सत्यभामा मद्गृह एव स्थित्वा धर्ममाचरत्विति भावः / जीवनाम्ना विस्तारिता गुणाभिधायकाः शब्दा अपि धर्मास्तिकायमवलम्ब्य त्रिलोक्यामपि महामूल्यतामवाप्य विशिष्टात्मनां श्रवणगोचरतामवाप्नुवन्तीत्यर्थोऽपि श्लेषमहिम्नाऽवसेय इति / / 71 / / - अर्थतत्फलितमाह-सभ्यरितिसभ्यैः प्रमाणीक्रियमाणमेत-द्राज्ञो वचस्तत्कपिलोऽन्वमस्त / जिजीविषुः को नृपतेनिदेशं, प्रत्यादिदिक्षाविषयं करोति // 72 // . व्याख्या-तत्-तस्माद् पूर्वोक्ताद् हेतोः / सभ्यः-सदस्यैः / प्रमाणीक्रियमाणं-समर्थ्यमानं / राज्ञःनृपतेः / एतव-सद्य उक्तं / वचः, कपिल:-अपि / अन्नमस्त-स्वीकृतवान्, किर्मिति सोऽप्यन्वमस्त, कथं न प्रत्यादिष्टवान्, तबाह / कः जिजीविषुः-जीवितुमिच्छुः / नृपतेः निदेशम्-आज्ञा / प्रत्यादिदिक्षाविषयी. करोति-प्रत्यादिदिक्षायाः प्रत्यादेष्टुं प्रतिषेद्धमिच्छायाः विषयीकरोति प्रतिषेद्धमिच्छत्ति, न कोपीत्यर्थः, अन्यथा प्राणायामिति भावः / अत्र च विशेषस्य कपिलकृतस्वीकारस्य वैधम्र्पण सामान्येन लोकका करानाज्ञाप्रतिषधकिसानान्तरन्यास:७२॥