________________ [1.7] तस्याः अप्रीतिमेवाह-प्रीतिमितिप्रीतिं परां धारयसि त्वमस्या-मेषा समाकाँक्षति नो भवन्तम् / दुःस्थः श्रियं ध्यायति पुण्यहीनः, सात समालिङ्गति नैव यद्वा // 6 // व्याख्या-त्वम् अस्याम्-सत्यभामायां / पराम्-अत्यधिकां / प्रीतिं धारयसि-करोषि / एषासत्यभामा / भवन्तम् नो-न / समाकाँक्षति-अभिलषति / यद्वा-यथा / पुण्यहीन:-सुकृतशून्यः, अत एव / दुःस्थ:-दुर्गतः / श्रियं-सम्पत्तिं / ध्यायति-चिन्तयति / सा-श्रीः / तं-दुःस्थं / नैव, समालिङ्गति-स्वीकरोति, अत्रोपमालङ्कारः // 6 // अथ स्वनिर्णयमाह-पदादित इतिपदादितो नेष्यसि चेदिमां त्वं, प्राणानिय त्यक्ष्यति तत् प्रसह्य / तस्मादियं तिष्ठतु मे निशान्ते, सुतेव धर्म सितमाचरन्ती // 69 // व्याख्या-इत:-अस्मात् / पदाव-स्थानात् "स्थानं तु पदमास्पदम्” इति हैमः / इमां-सत्यभामां। चेद्-यदि / त्वं नेष्यसि-स्वगृहं प्रापयिष्यसि / तत-तदा / इयं-सत्यभामा। प्रसह्य-हठात् / प्राणान्असून् / त्यक्ष्यति-मरिष्यतीत्यर्थः / तस्मात्-तत्कारणात् / इयं-सत्यभामा / मे-मम / निशान्ते-गृहे, निशान्तपस्त्यसदनमित्यमरः। सितं-विशुद्धं / धर्ममाचरन्ती-अनुतिष्ठन्ती। सुता-मत्कन्यका / इव तिष्ठतु-निवसतु, यथा सा प्राणान् मा त्याक्षीदिति भावः / / 69 // लोकद्वयेन धर्ममाहात्म्यमाह-अभूदितिअभूत् पशुस्वाम्यपि निर्विलम्ब, कपर्दभूत्याकलितोऽपि नूनम् / ऐश्वर्यधुर्यः समलोकमान्यो, धर्म दधानः स सदाशयेऽपि // 70 // व्याख्या-पशुस्वाम्यपि-पशूनां गोमहिषाजादीनां स्वाम्यपि गोपोऽपि, अथ च पशुस्वाम्यपि पशुपतिरपि, महादेवोपीति यावत् / निर्विलम्ब-सद्य एव / कपर्दभत्याकलितोऽपि-कपर्दः वराटकः, कपर्दस्तु पणास्थिकंवराटको" इति हैमः, उपलक्षणतया अल्पधनं स एव भूतिस्सम्पत् तयाऽऽकलितोऽपि युक्तोऽपि, महादेवपले कपदों जटाजूट: "कपर्दोऽस्य जटाजूट" इत्यमरः / तेन मूत्या भस्मना चाऽऽकलितोऽपि युक्तोऽपि 'भूतिमस्मनि सम्पदि,' इत्यमरः कोशः, 'भस्म तु स्यातिः' इति हैमः / एक सिका