________________ [106] व्याख्या-पृथ्वोश!-राजन् ! अर्कः-सूर्यः / प्रमां-रुच / विना चेद्-यदि / अवतिष्ठते-तिष्ठेत / स-प्रसिद्धः / चन्द्रश्चेत्, चन्द्रिकया-ज्योत्स्नया / विनाऽपि-अवतिष्ठते इत्यनुषज्यते / तथा / आत्मा, चेतनया संविदा प्रेक्षोपलब्धिश्चिवसविद प्रतिपज्ज्ञप्तिचेतनाः"इत्यमरः / विना चेत्-अत्राऽप्यवतिष्ठते इत्यनुषज्यते / तदा एतया- सत्यभामया। विना-अहमिति शेषः / स्थातुम. अलं-समर्थः “अलं भूषणपर्याप्तिशक्तिवारणवाचकम" इत्यमरः। अस्मि-स्याम् / नझर्कादयः विना प्रभादिभिरवतिष्ठन्त इति ममाऽपि स्थितिरेतया विना नेत्यर्थः, आवयोः तेषामिव परस्परासक्तत्वाव, तथा च नाहमेनां त्यक्ष्यामि इति भावः / / 65 / / अथ राजा युवयो प्रभादीनामिव सम्बन्ध इत्याह-दृष्टान्तेतिदृष्टान्तदान्तिकयोर्विरोध, प्रीतेविसंवादितयैव तस्याः / अप्रेक्षमाणः स पुनः क्षितीशा, प्रेक्षावतामग्रयतमोऽप्यवाचि // 66 // व्याख्या-प्रेक्षावतां-विदुषाम् / अग्र्यतमः-अतिप्रधानः / अपि, तस्याः-सत्यभामायाः। प्रीते:वियुज्यानवस्थाने मूलभूतप्रेम्णः / एव, विसंवादितया-विवादास्पदतया / दृष्टान्तदा न्तिकयो:-दृष्टान्तः अर्कप्रभादिः दार्टान्तिकः स्वयम् तयोः। विरोधम्-विरुद्धधर्मवत्त्वेन वैषम्यम् / अप्रेक्षमाणः-अनवलोकमानः, एतेन तस्य रागान्धत्वं सूचितम्, कथमन्यथा विद्वानपि तथाविरोधस्य न विज्ञस्स्यात् / सः-कपिलः / क्षितीशा-राक्षा / क्षितीशा क्षितिमीष्टे इति क्षितीश् / तेन नृपेण श्रीषेणेन / पुन:-भूयः / अवाचिऊचे // 66 // किमवाचीत्याह-संसारिकीति - संसारिकी प्रीतिरिय द्विनिष्ठा, सम्बन्धवत् किं प्रतिभासते न ? सा चैकनिष्ठाऽभ्युपगम्यते चेत्, किमेकतालेन न तालिका स्यात् // 67 // व्याख्या-संसारिकी-संसारभवा, अलौकिकी त्वेकनिष्ठाऽपि / इयं-साक्षादनुभूयमाना / प्रीतिःअनुरागः / सम्बन्धवत्-संसर्गवत् / द्विनिष्ठा-उभयसंपृक्ता / न प्रतिभासते-न प्रकाशते / किम् ?-अपित्वपश्यं प्रकाशते / विपक्षे आपत्तिमाह / चेद्-यदि / सा-प्रीतिः / एकनिष्ठा-एकगता / अभ्युपगम्यते-स्वीक्रियते / तदा, एकतालेन-एककरतलेन / तालिका-करद्वयसंयोगजन्यः शब्दः / किं न स्यात्-कुतो न भवेत् / यथा हि नैकतालजन्या तालिका तथा नैकगता प्रीतिः सहावस्थानसाधिका इत्यर्थः / दृष्टान्तालङ्कारः // 67 / /