________________ [1051 मह सम्बन्धो नाभिमतस्तस्येति सूचितम् / धराधिराज:-धरायाः पृथिव्याः अधिराजः अधिको राजा सम्राट / तं- कपिलम् / आचष्ट-आख्यातवान्, किमित्याह / उदारमावस्य-उदारः उन्नतः भावः चितवृत्तिर्यस्य, न तु कुलादि, तस्यापि / अकुलीनस्य-दुर्जातस्य / तु-इत्यरुचौ। तव, दाराव-पत्नीत्वम् / इयम्-इह समुपस्थिता, कुलीना सत्यभामा। न-नैव / काँक्षति-अभिलषति // 62 / / - अथैवं स्थिते स्वविचारमाह-तस्मादितितस्मादिमां सत्यकिकन्यकां त्वं, विरक्तचित्तां विजहीहि भद्र ! . नैवानुरागः सुखवृद्धये स्या-द्विरागताऽऽलम्बिनि निर्मितो हि // 63 // व्याख्या-भद्र !-मनस्विन् / तस्मात-तत एतस्याः अनिच्छातः / त्वं-भवान् / विरक्तचित्तांविरक्तं विगलितप्रेमचित्तं वा यस्यास्ताम् / इमां-समुपस्थितां / सत्यकिकन्यकां-सत्यभामां / विजहीहित्यज, पक्षान्तरे दोषमाह / हि-यतः। विरागतालम्बिनि-विरागतामप्रीतिमालम्बते इत्येवंशीले जने / निर्मितः-विहितः। अनुरागः प्रीतिः / सुखवृद्धये-सुखाय / नैव स्यात-अप्रीतेहेतोः प्रतिदिनं कलहप्रसक्तेरिति भावः // 6 // अथ कपिलस्योत्तरमाह-कर्णातिथीकृत्येतिकर्णातिथीकृत्य नृपस्य वाचः, प्रोवाच वाचस्पतिवत् स विप्रः। ऐश्वर्यलीलां कलयन् किमीहक, प्रभुः प्रवक्तं प्रभुवत् परोऽत्र // 64 // व्याख्या-नृपस्य-राज्ञः श्रीषणस्य / वाचः-गिरः / कर्णातिथीकृत्य-कर्णयोरतिथीकृत्य, श्रुत्वेत्यर्थः / वाचस्पतिवत-"स्यादेरिवे / " // 7 // 1 // 53 / / इति हैमसूत्रेण वाचस्पतिरिवेति वाचस्पतिवद, निर्भयतया / म-प्रक्रान्तः / विप्रः-द्विजः कपिलः। प्रोवाच, अत्र-संसारे / ऐश्वर्यलीलाम्-ऐश्वर्यस्य विभूतेः लीलां विलासं कलयन् दधत् / पर:-त्वत्तोऽन्यः / प्रभुवत-प्रमुरिव, त्वमिव / ईदृक-पत्युः स्वपत्नीत्यागं / प्रवक्तंकथयितुं / प्रभुः-समर्थः / किम !-नैवेत्यर्थः ! यो हि ईश्वरः नीतिप्रवक्ता स एवं नैव ब्रूयात, त्वमेवैवं लोकविरुद्धं ब्रवीषि, नान्य इत्यज्ञतापरिहासोऽपि / / 64 // __ अथ तदुक्तस्वीकारे स्वस्याऽसामर्थ्य प्रकटयति-प्रभामितिप्रभां विना चेदवतिष्ठतेऽर्क-चन्द्रः स चेचन्द्रिकया विनाऽपि / ... पृथ्वीश !चेच्चेतनया विनाऽऽत्मा, विनतया स्थातुमलं तदाऽस्मि // 65 //