________________ [104] व्याख्या-तथा-एवमस्तु / इति एवं रीत्या / राज्ञः-श्रीषेणभूपालस्य / वाचं-निदेशं / परिगृहस्वीकृत्य / दौवारिका, कपिलस्य वेश्म-गृहम्। अगाव-अयासीत् / क्षितीश:-राजा। भवन्त-त्वाम् / बाकारयति-आह्वयति / इति च, भृत्यमुखेन-कपिलभृत्यद्वारेण तं कपिलम् / आजूहवत्-आजिज्ञपद // 59 // अथ कपिलकर्त्तव्यमाह-श्लोकद्वयेन युग्मेन-उपेत्येतिउपेत्य तत्सन्निधिमात्मनैव, प्रदाय तस्याशिषमानतस्य / विज्ञाय वृत्तान्तमिमं तदास्या-दाशङ्कया प्लावितचित्तहर्षः // 10 // ससंभ्रमस्तेन समं स गत्वा, व्यभूषयद्राजसभां ससभ्याम् / नरेन्द्रसंदर्शितभूमिभाग-प्राप्तासनः प्रोक्तजयेतिशदः // 61 // व्याख्या-आत्मनैव-स्वयमेव, एतेन सम्भ्रम उक्तः। ततसनिधिं-तस्य दौवारिकस्य सन्निधिं समीपम् / उपेत्य-आगत्य / आनतस्य-नतशिरस्कस्य / तस्य-दौवारिकस्य / आशिषम्-आशीर्वचनं / प्रदाय-दत्वा / तदास्याव-तस्य दौवारिकस्य आस्याव मुखाद / इम-सत्यभामोक्तरारभ्य राजकृताहानपर्यतम् / वृत्तान्त-समाचारं / विज्ञाय-ज्ञात्वा। आशङ्कया-अस्पष्टानिष्टभावसंशयेन / प्लावितचित्तहर्ष:प्लावितः बुडितः चित्तस्य हर्षः यस्य स तादृशः / ससम्भ्रमः-सत्वरः स कपिलः / तेन-दौवारिकेण / समसह / गत्वा-राजानमुद्दिश्य / प्रोक्तजयेतिशब्दः प्रोक्तः जयेत्याशीः सूचकः शब्दो येन सः, तादृशः नरेन्द्रेण राज्ञा सन्दर्शिते इङ्गितेन ज्ञापिते भूमेः भागे प्रदेशे प्राप्तम् स्वीकृतमासनं पीठं येन स, तादृशः नरेन्द्रसन्दिर्शितभूमिभागप्राप्तासन:-सन् / ससम्यां-सदस्यसम्पन्नां / राजसमां-राजभवनम् / व्यभूषयत्अलञ्चकार / एतेन तस्य प्रभावातिशयः सूचितः / नान्यथा तेन राजसभाविभूषणम् सम्भवति // 61 // अथ इदानीं राज्ञः तं प्रत्युक्तिमाह-वर्णाश्रमेतिवर्णाश्रमाचारविचारचारूं-स्ततस्तमाचष्ट धराऽधिराजः / उदारभावस्य न दारभावं, तवाकुलीनस्य तु काङ्क्षतीयम् // 62 // / व्याख्या-ततः–कपिलोपवेशनाऽनन्तरम् / वर्णाश्रमाचारविचारचारु:-वर्णनाम् ब्राह्मणादीनाम् आश्रमाणं ब्रह्मचर्यादीनाच, य आचारः क्रियाक्रमः तस्य विचारे विवेके चारुः पटुः, एतेन कुलीनायाः अकुलीनेन