________________ दाहकत्वाद्भयङ्करः / बहि-अग्निः / दारुण:-काष्ठादेव। सम्भूय-समुत्पद्य / दारुभारम्-इन्धनचयं / न ओपति-न दहति / किम् ?-अपितु दहत्येव, तथा मत्कृतं कर्म मां दहति कर्म गोऽग्नितुल्यत्वाद। तथा चात्र दृष्टान्तालङ्कारः। विशेषस्य विशेषेणसमर्थनाव, यदुक्तम्-"दृष्टान्तस्तु सधर्मस्य वरतुनः प्रतिविम्बनम् // 56 // इदानीमेतावता प्रबन्धेन विवक्षितमेव वक्ति-संवद्धितैरिति - संवर्धितेस्तैर्दरितैर्ममायं, भर्ता कुलीनः समपादि नैव / तस्मात्तथा नाथ ! विधेहि मुक्ता, तेनैव धर्म करवै यथाऽहम् // 57 // व्याख्या-संवर्धितः-उपचितैः। तैः-पूर्वार्जितैः / दुरित-पापैः / / अयं-सम्प्रतिपन्नः। मममदीयः। भर्ता-पतिः। कुलीन:-सुकुलोद्भूतः। नैव समपादि-न खलु समभूत् / नाथ !-प्रभो! तस्माद्-अकुलीनत्वाद्धेतोः / तथा तादृक् / विधेहि-कुरु / यथा-येन / तेन-पत्या। मुक्ता-त्यक्ता / अहं धर्म-पुण्यजनकानुष्ठान / एव-नत्वन्यत्पुनर्विवाहादि / करवै-कुर्याम् / येन पुनरप्येतादृशी अवस्था मम न समुपस्थिता भवेत् // 57 // अथ सम्प्रति तच्छ्रुत्वा राज्ञश्चेष्टितमाह-आकर्षेति - आकर्ण्य विज्ञप्तिमिमां स तस्याः, पार्श्वस्थदौवारिकमादिदेश / स्वयं समाहृय समेहि विप्रं, प्राणेश्वरं सत्यकिनन्दनायाः // 58 // - व्याख्या-तस्याः-सत्यभामायाः / इमां-पूर्वोक्तां। विज्ञप्ति-निवेदनम् / आकर्ण्य-श्रुत्वा / सश्रीषेणो राजा। पार्श्वस्थं दौवारिकम-समीपस्थं प्रतीहारं "द्वारपालकः दौवारिकः प्रतीहारः” इतिहमः / एतेन राज्ञः झटिति, कार्यसम्पादनेच्छा सूचिता। मादिदेश-आज्ञापितवान्, किमित्याह / सत्यकिनन्दनाया:सत्यभामायाः / प्राणेश्वरं-पतिं / विप्रं-द्विजं, कपिलं / स्वयम्-आत्मनैव, नत्वन्येन केनचिद, तथा सति कार्यविलम्बसम्भावनेति भावः / समाहूय-आकारयित्वा / समेहि-समागच्छ, एतेनाऽपि त्वरा सूचिता भवति, केनापि हेतुना तदनागमने कपिलागमनविलम्बोऽपि भवेदितिभावः // 28 // अथ दौवारिककृत्यमाह-तथेतितथेति राज्ञः परिगृह्य वाचं, दौवारिकोऽगात् कपिलस्य वेश्म / आजूहबद्धृत्यमुखेन चेति, भवन्तमाकाम्यति क्षितीशः // 59 //