________________ [102] .... पुरातने जन्मनि तस्य वाचः, श्रोत्राभिधित्वं मयका न नीताः। - नीतास्ततः किं यदि नाम नैव, चित्ते धृतास्ताः विधृतास्ततः किम् // 54 // . व्याख्या–पुरातने-पूर्वस्मिन् / जन्मनि-भवे / मयका-मया। तस्य-जिनस्य / वाचः-उपदेशगिरः / श्रोत्राभिधित्वं कर्णविवरवर्त्तित्वं / न नीता:- न प्रापिताः,न श्रुता इत्यर्थः, भाग्योदयेन कदाचिच्छृतास्तथापि न तावन्मात्रेणेष्टफलमित्याह / नीता:-श्रोत्रगोचरं प्रापिताः / ततः-तावन्मात्रात् / किम्-न किमपि, कुतः इत्याह / यदि नाम चित्ते-मनसि / नैव धृता:-नहि श्रवणमात्रेण फलावगमः, किन्तु धारणेन, तद्धारणामात्रेणापि नैवेष्टफलमित्याह / ताः विधृताः यदि चित्ते विशेषेण धृताः / ततः-तस्मादपि / विम्-न किमपि, नहि धारणमात्रेणेष्टसिद्धिर्भवति // 54 // धारणायां सत्यां कुतो नेष्टसिद्धिरित्याह-यथोक्तेतियथोक्तवृत्त्यैव न यावदेताः, सुशिक्षिताः स्युः परिशीलनेन / तावद् कथं दुःखपरम्पराया, विभेदने बिभ्रति लालसत्त्वम् // 55 // व्याख्या-एता:-जिनेशवाचः / यथोक्तवृत्त्यैव-उक्तकमानतिक्रमेणैव / परिशीलनेन-मननपूर्वकं / यावत्-यदवधि / सुशिक्षिता:-स्वभ्यस्ताः / न स्युः न भवेयुः / तावत्-तदवधि। दुःखपरम्पराया:दुःखस्य कर्मोदयजन्याध्यात्मिकादिदुःखस्य परम्परायाः पौर्वापर्यस्य / विभेदने-नाशने / लालसत्वं-सोत्कंठत्वं / कथं-केन प्रकारेण / विभ्रति-धारयन्ति, यथा व्याख्यानं मनने कृते एव जिनोक्तिरूपागमेन दुःखध्वंससंभवः, न केवलमभ्यासमात्रेण, तस्य शुकाभ्यासकल्पत्वाद, इत्यर्थः // 55 // अथ आगमस्य मननपूर्वकाऽभ्यासेऽपि कृतकर्मणो भोगादेव क्षय इत्याह-यानीतियानि प्रभोऽज्ञानवशादकार्ष, तान्येव पापानि दहन्ति किं माम् ? स दारुणो दारुण एव वह्निः, सम्भूय किं नौषति दारुभारम् // 56 // व्याख्या-प्रभो-राजन् ! अज्ञानवशाव-मोहपारतव्यतः / यानि पापानि-पूर्वजन्मनि / अकार्षमतानि पापान्येव मां दहन्ति–तापयन्ति / किम् !-अवश्यं तान्येव दहन्ति, कृतकर्मणो भोगादेव क्षयादिति भावः, नान्यथा ममैतद्दुःखसंभवः। ननु स्वकृतेन कथं स्वस्य पराभव इत्याशङ्कयाह / स:-प्रसिद्धः / दारुणः