________________ [1.1] अथ च चन्द्रबद्धवलः अगुवश्च यो “वंशो वेणुर्यवफलस्त्वचिसारस्तृणध्वजः" इति हैमोक्के वंशस्य तृणध्वजस्य केतुः स इव वंशे केतुः / त्वं-भवान् / निग्रहात्मा-निप्रहः दण्डनम्, स एवात्मा यस्य स तथा; दण्डने उपस्वभावः / अनुग्रहात्मा अनुप्रहः स आत्मा यस्य स तादृशः दयालुस्सौम्यस्वभावश्च, वेति शेषः, किमिति प्रश्नकाकुः, कुतस्तत्स्वभाव इत्याशङ्कायामाह। यत्र-यस्मिन् जने / अनुकूल:-अनुप्रहस्वभावः / प्रतिकूलका-उपपातस्वभावो। वा-भवसीति शेषः / त-जनं। देवविभूतिमानम्-देवानां विमूतिरेश्वर्य ताजम्, अनुकूलत्वे तथा धनदानेन, प्रतिकूलत्वे मरणेन स्वर्गप्राप्तेः देवविभूतिभाक्त्वमिति भावः, करोषि विदधासि श्लेषः // 51 // अथ सम्प्रति स्वविज्ञप्त्यै भूमिकामारचयति-विज्ञप्तिमितिविज्ञप्तिमाकर्णय मे नरेन्द्र !, त्वत्तो वराकः स पुनः सुरेन्द्रः / न दृश्यते तज्जयवाहिनी सा, न दृश्यतेजःप्रसरप्रचारः॥५२॥ व्याख्या-नरेन्द्र !-राजन् ! मे-मम / विज्ञप्ति-निवेदनम् / आकर्णय-शृणु। स सुरेन्द्रा, पुनरितिवाक्यालङ्कारे। त्वत्त:-त्वामवेक्ष्य / वराक:-दीनः, कुत एतज्ज्ञातम् इत्याह / तज्जयवाहिनी-तस्य सुरेन्द्रस्य जयस्य विजयस्य वाहिनी सेना "ध्वजिनी वाहिनी सेना" इत्यमरः। सा न दृश्यते-तथा / दृश्यतेज:प्रसरप्रचार:-दृश्यः प्रत्यक्षः तेजसः प्रसरस्य विस्तारस्य प्रचारः सञ्चरणं न, दृश्यते इत्यनुषज्यते / यदि हि स त्वत्समोऽभ्यधिको वा भवेत् तदा तौ दृश्येयातामेवेति भावः / / 52 // यः श्राद्धदेवः समवर्तनो यो, यो धर्मराजः शमनः श्रुतो यः। ततिं नराधीश्वर! कर्म वाच्यं, तस्माद्विभिन्न जिनमेव विद्धि // 53 // व्याख्या-यः श्राद्धदेवः-पितृपतित्वात् यः श्राद्धोद्देश्यानां पितॄणां देवः / श्राद्धानां श्रद्धालूनां देवः नृपः, तैः पूज्यो वा, "श्रद्धालुरास्तिकः श्राद्धः" "इति देवो भट्टारको नृपः” इति हैमः / यः समवर्तन:-समतुल्यम् सर्वेषु राशि रके च जन्तुषु वर्त्तनं यस्य स तादृशः / यः धर्मराजः-धर्मस्य राजा न तु स्वयं धर्मकर्ता। या शमन:-शमयति पापिनां कर्म आलोचयति न तु स्वयं शमी / भ्रत:-प्रसिद्धः, तव / कर्म-नारकदण्डनादि / नराधीधर ! किं वाच्यम्-जुगुप्साऽऽपादकत्वात् , नैव वाच्यमित्यर्थः। तस्मात्-श्राद्धदेवाद / विभिन्न-विळाणं / जिनम्-वीतरागम् / एव विद्धि-स हि दण्डायकृत्वैव प्राणिपालनपरायणः, अतिशयदयालुत्वादिति भावः // 5 //