________________ [1..] चन्द्रः "चन्द्रः सोमः” इति हैमः, उमया सहित इति सोम इति सङ्गत इह सोमशब्दप्रयोगः अथ च आह्वादकः / नासि-न भवसि / किम्विति-काकुप्रश्नः अर्थादवश्यं भवसि / तथा भृतनयः-मूतः मूतिविशिष्टः सम्पन्नो वा नयः नीतिर्यस्य स तादृशः, अथ च मुवः पृथिव्याः तनयः। मङ्गल:-तदाख्यः प्रहः, अथ च मङ्गलकारकः / त्वम्-तथा / प्रतीतल्यवहारसौम्य:-प्रतीतः प्रसिद्धः व्यवहारेषु कर्त्तव्येषु सौम्यः शान्तस्वभावः उदारस्वभावश्च, अथ च प्रतीतः व्यवहारः यस्य स चासौ सौम्यः “रोहिणेयो बुधः सौम्यः" इत्यमरोक्तेः बुधाख्यो प्रहः / बुधः-पण्डितः / त्वमेव-भवानेव न त्वन्यः। त्वयि सौम्यत्वं चन्द्रवन्शीतत्ववेत्युभययोगादिति, एवकारेणाद्वयतिरेकालङ्कारः॥४९॥ गुरुस्त्वमालम्बनभूतजीवः, प्रभो ! कविस्त्वं श्रुतकाव्यनामा / शनैश्चरस्त्वं श्रितमन्दभाव-स्तमो (हि) द्विषन्पार्थिवसेंहिकेयः // 50 // म्याख्या-प्रमों !-स्वामिन् ! आलम्बनमृतजीव:-आलम्बनमूतमाश्रितं जीवयतीति स तादृशः आश्रितपालकः। अथ च आलम्बनमाधारतां भूतः प्राप्तः स चासौ जीवश्च बृहस्पतिः "जीव आङ्गिरसः” इत्यमरः। बार्हस्पत्यसिद्धान्ते बृहस्पतेरेव ज्यौतिषे जगदाधारत्वेन वर्णनाव, सूर्यसिद्धान्ते सूर्यस्येव / गुरु:-श्रेष्ठः, पालकत्वेन पित्रादिरूपः, अथ च गुरुः बृहस्पतिः त्वम् “गीष्पतिर्धिषणो गुरुः” इत्यमरः / तथा श्रुतकाव्यनामाश्रुतं प्रसिद्धम् काव्ये प्रबन्धे नाम यस्य सः / अथ च श्रुतं प्रसिद्ध काव्य इति नाम यस्य सः, "शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः”, इत्यमरः / कवि-काव्यकर्ता, अथ च शुक्राचार्यः तदाख्यग्रहो वा त्वम् / श्रितमन्दमाव:-त्रित आश्रितः मन्दभावः अनौद्धत्यं येन सः। अथ च मन्दभावः मन्देति संज्ञा येन सः, शनैश्चर:-अक्षिप्रगमनः, महतां शीघ्रगमननिषेधादिति भावः, अथ च “मन्दः क्रोडो नीलवासा” इति हैमोक्तेः तदाख्यः प्रहः त्वम्, हि पुनः / पार्थिवसैहिकेय:-पार्थिवेषु राजसु सैहिकेयः सिंहिकायाः अपत्य सिंह इव शूरः / अथ च विधुन्तुदः, अत्र यद्यपि मुद्रितपुस्तके 'तमोहिषन्' इति पाठ उपलभ्यते, परं 'तमोद्विषन्' इति पाठः सम्यग् प्रतिभाति / तथा च तमोद्विषन्-राजपक्षे तिमिरद्वेषकारकः, राहुपक्षे तु तमश्चासौ द्विषन्निति “तमस्तुराहुः स्वर्भानुः, सैंहिकेयो विधुन्तुदः" इत्यमरः // 50 // चन्द्रावदाताद्भुतवंशकेतुः, त्वनिग्रहात्मा किमनुग्रहात्मा। पत्रानुकूलः प्रतिकूलको वो, करोषि तं देव विभूतिभाजम् // 51 // व्याख्या-चन्द्रावदातामुतवंशकेत:-चन्द्रस्य चन्द्रवद्वा अवदातः विशुद्धः, अतः अनितरसाधारणः यो पेशः कुलम् अनेम चन्द्रकुलोत्पन्नोऽमिति चन्द्रवनिर्मलवंशीयोऽयमिति व सूचितम्, तस्य केतुः वजारूपः