________________ [99 ] अथ सत्यभामायाः प्रवृत्तिमाह-निश्चित्येतिनिश्चित्य तादृक् कपिलस्वरूपं, मनोविरागं च निजानुरूपम् / अनन्यनिर्वय॑तदीयचेतो-वृत्तिप्रवृत्तिं च सुवृत्तभावा // 47 // दोवारिकज्ञापितवित्तवृत्त - वृत्तान्तमश्रान्प्रतनयचारम् / श्रीषेणभूगलमुपेत्य भर्तृ-स्वरूपमाख्यत् किल सत्यभामा // 48 // व्याख्या-सुवृत्तभावा-सुवृत्तः सुसम्पन्नः भावः आशयः यस्याः सा सदाशया सत्यभामा। तादृक्धरणीजटोक्तप्रकारम् / कपिलस्वरूपम्-दासीपुत्रत्वादिधर्म कपिलस्य वृत्तम्, तत एव / निजानुरूपम्स्वस्वरूपोचितम् तद्विषये / मनोविरागं-मानसिकरागाभावं चित्तवैलक्ष्यम् / अनन्यनिर्वत्यंतदीयचेतोत्तिप्रवृत्ति-न अन्येन निवां परावर्तनीया ताम्, नेतरसमाधेयाम्, तदीयायाः कपिलसम्बन्धिन्याः चेतोवृत्तेः मनोभावस्य प्रवृत्तिं व्यापारम्, नृपातिरिक्तस्य जनस्य कथनेन न मामयं त्यक्ष्यतीत्येवंरूपाम् / च निश्चित्यविचार्य / अश्रान्तनयप्रचारम्-अश्रान्तः अप्रतिरुद्धः नयस्य नीतेः प्रचारः प्रसरः यस्य स तम्, नीत्या शासितारम्, एतेन तत्रावश्यं न्यायलाभ इति-सूचितम् / दौवारिकज्ञापितवित्तवृत्तवृत्तान्तम्- दौवारिकेणप्रतीहारेण ज्ञापितो वित्तः प्रसिद्धः वृत्तो जातः वृत्तान्तः साभियोगः स्वागमनादिरूपसमाचारः यस्य तम् / 'ख्याते प्रतीतप्रज्ञातवित्तेति' हैमः / श्रीषेणभूपालं-श्रीषेणाख्यराजानम् / उपेत्य--प्राप्य / भतस्वरूपम्भर्तुः पत्युः कपिलस्य स्वरूपम् कुलादिरूपम् धर्मम् / आख्यत्-कथितवती / किलेति-प्रसिद्धौ // 48 // ... . अथ स्वेष्टसिद्ध्यै राजानं स्वाभिमुखीकतुं सत्यभामाकृतस्तुतिमाह-स्वमेवेति त्वमेव सूरः परतापनत्वात्, दुर्गाश्रयत्वाकिमु नासि सोमः ? ... त्वं मङ्गलो भूतनयस्त्वमेव, बुधः प्रतीतव्यवहारसौम्यः // 49 // व्याख्या-त्वमेव-भवानेव / परतापनत्वात्-परस्य शत्रोः अन्यस्य जगतश्च तापनत्वात् सन्तापकत्वाद। सूरः-सूर्यः / “सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः” इत्यमरः / अथ सूते तेज इति सूरः, परतापनत्वात् अन्यप्रजाजनाना राजतेजः प्रदर्शकत्वेन सूरः प्रतापी, अत एव शासकः, नान्यः कश्चित स हि परस्यान्यस्य स्वतेजःप्रदर्शकः नतु शत्रोः केतुप्रहादेरिति व्यतिरेकः तथा / दुर्गाश्रयत्वाद-दुर्गः कोट्टः, कोदुर्गे, पुनः समे" इति हैमः / अथ च दुर्गा उमा, तथा च दुर्गा कान्तिः तदाश्रयत्वाद, कान्सत्वादितियावत् / “उमा * गौर्या हरिद्रायां कीर्तिकान्त्यतसीष्वपि" इति हैमानेकार्थः। सोमः