________________ [ 98 ] व्याख्या-सा-कपिलेन पृष्टा सत्यभामा। स्वमनोविकार-स्वमनसः विकारम् तदीयगुप्ततथ्यवार्ताश्रवणजन्यतद्विषयकस्वचेतो वैलक्ष्यादि / अदर्शयन्ती-अप्रकटयन्ती / एतेन तस्याः अवसरपरिपालन सूच्यते दयित-प्रियं, कपिलं / बभाषे-किमित्याह / अस्मै-त्वत्पित्रे / गृहसारसारं-गृहस्य सारे श्रेष्ठवस्तुन्यपि यत्सारं श्रेष्ठम् उत्तमोत्तमं वस्तु / प्रदीयते-आदराधिक्यादर्पणीयं, किमित्युत्तमोत्तमं तत्राह / हि-यतः, अयं तव पिता / पात्रं-दानाहः विद्यावंशशीलादिविभूषितत्वात् / गुरु:-पूज्यश्चेति, महान्-दुर्लभः / योग:अवसरः, न वयमेवं सर्वदा सुलभमिति दानप्राशस्त्यायोत्तमोत्तम देयमिति भावः // 44 // ___ अथ कपिलप्रवृत्तिमाह-सोऽयमितिसोऽयं तदुत्साहविवर्द्धिभावः, स्वर्णञ्च रत्नञ्च दुकूलवस्त्रम् / विश्राण्य योग्यं व्यसृजत् समृद्धौ, गुरौ हि को नाम पराङ्मुखः स्यात् // 45 // व्याख्या-सः ज्ञातभार्याभावः / अयं-कपिलः / तत-तस्मात् सत्यभामाऽनुरोधाद्धेतोः। उत्साहविवर्द्धिभाव:-उत्साहेन विवर्ती विवद्धिष्णुर्भावः स्वाभिप्रायः यस्य स तादृशस्सन्, एतेन तस्य दानवीरत्वं सूचितम् / योग्यं-उचितम्। स्वर्णश्चरत्नञ्च दुकूलवस्त्रं-भौमवस्त्रं च "झौमं दुकूलम्' इति हैमः / विश्राण्यदत्वा। व्यसृजद-विसर्जयामास, उचितं चैतत्तदाह / हि-यतः / समृद्धौ-ऋद्धः आधिक्ये सति / गुरौपित्रादौ पूज्ये पात्रे / क नामेति-कोमलामन्त्रणे / पराङ्मुखः-दानविमुखः / स्यात्-न कोऽपीत्यर्थः // 45 // अथ दानानन्तरं कपिलमनोभावमाह-सुपात्रेतिसुपात्रसम्बन्धमवाप्य लक्ष्मीः, कृतार्थतामाश्रयति स्म तस्य / जातः कृतार्थः कपिलोऽपि को वा, भक्त्या सतां नो परितोषमेति // 46 // व्याख्या-तस्य-कपिलस्य / लक्ष्मी:-दत्तस्वर्णादिसम्पत्तिः। सुपात्रसम्बन्धं-सुपात्रेण विद्यादिसम्पन्नेन दानपात्रेण तत्पित्रा सम्बन्ध जन्यजनकभावरूपं संसर्गम् / अवाप्य-प्राप्य / कृतार्थतां-कृतः अर्थः प्रयोजनं यस्यास्तद्भावस्तत्ताम् “वित्तं त्यानयुक्तमित्युक्ते” रिति भावः / आश्रयति स्म-समाश्रयत् / कपिलः अपि-कृतार्थ:-कृतकृत्यः / जात:-अभूत / योग्यमेवैतदित्याह / सतां-पूज्यानां गुर्वादोनां / भक्त्या-सत्कारेण कृत्वा। कोब्रा परितोष-सन्तोषं कृतकृत्यतामिति यावत् / नो-अत्र निषेधार्थे नो, नेत्यर्थः। एतिगच्छति / अपि तु सर्व एवैति, अन्यथा दुर्जनत्वापत्तरिति भावः // 46 //