________________ [ 97] मध्यदेशो हदयं यस्यास्सा वानी / पुण्याहरोत्पचिम्-पुण्यमार इव, पुण्यमिव स अरस्तस्योत्पत्तिम् / अपेक्षमाणा-आशास्थमाना। तस्थौ-स्थिता / अत्रार्थ निषिमिति रूकेग रसालिजितादिश्लेषेण, चापागतोपमा // 4 // अथ सम्प्रति कपिलस्य कृत्यमाह श्लोकद्वयेन-यन्मेऽपि इति- .. यन्मेऽपि वृत्तान्तमिह प्रवक्ता, तातः स्थितस्तेन विसर्जनीयः। स्ववृत्तभङ्गे यदि वा महद्भिः, प्रमादलेशः परिवर्जनीयः // 42 // व्याख्या-इह-अत्र मद्गृहे / स्थितः-उषितः / तात:-मम पिता / यद्-येन हेतुना / मे-मम / वृत्तान्तम्-गोपनीयदासपुत्रत्वादिवार्ताम्। अपि न-स्ववृत्तान्तमपि / प्रवक्ता-कथयिष्यति / तेन-मर्मभेदेनानर्थो मा भूदिति हेतुना / विसर्जनीयः-झटिति पुरस्कारादिप्रदानद्वारा इतः अपसारणीयः / यदि वा-यतः, स्ववृत्तमङ्गे-स्वस्य वृत्तस्य गुप्तवार्तायाः भंगे प्रकट नावसरे समुपस्थिते सति / महद्भिः स्वमानरक्षिभिः / प्रमादलेश:-प्रमादस्य अनवधानतायाः लेशः सम्बन्धः "प्रमादोऽनवधानता", "लेशः सम्बन्धर्वयो"रिति च कोशः / यद्वा स्तोकोऽपि प्रमादः / परिवर्जनीय:-त्याज्यः, अन्यथा महत्त्वहानिस्स्यादिति भावः // 42 // चिचे विचिन्त्येति वितत्य कृत्यं, समेत्य पस्त्यं कपिलो बहि (स्तः) ष्ठः / प्रपच्छ भार्यां शुचिशीलधुर्या, वस्तुः सपर्याविधये विहस्तः // 43 // व्याख्या-इति-पूर्वोक्तरीत्या। चित्ते-मनसि। विचिन्त्य कृत्यं-कार्य / वितत्य-समाप्य / बहिष्ठः-कार्यच्छलेन . बहिर्देशस्थः। पस्त्यं-गृहम् / “निशान्तपस्त्यसदनं भवनागारमन्दिरम्” इति कोशः / समेत्य-आगत्य / कपिल: विहस्त:-चतुरः, "विहस्तश्चतुरो व्यग्रः" इति कोशः / वप्तु:-पितुः / सपर्याविधये-सपर्यायाः पूजायाः द्रव्यादिना सत्कारस्य विधये अनुष्ठानायेत्यर्थः, कियत् किं वा दातव्यमित्येवम् / शुचिशीलधुर्याम्-शुचि पवित्रं यच्छीलं तस्मिन् धुर्या धौरेयां "धुर्यः-धौरेय-धौरेयक-धुरंधराः” इति हैमः / सम्पन्नशीलामित्यर्थः / भाां-पत्नी सत्यभामां / प्रपच्छ-जिज्ञासितवान् // 43 // अथ सत्यभामायास्तदुत्तरमाह-अदर्शयन्ती इतिअदर्शयन्ती स्वमनोविकारं, सा सत्यभामा दयितं बभाषे। .... प्रदीयतेऽस्मै गृहसारसार, पात्रं गुरुश्चेति महान हि योगः // 44 //