________________ [ 96 ] चर्वणे नाशने उत्कम्, उत्कण्ठितम्, गृहभारस्यात्रैवारोपाव, तत्र संभवच्छत्रुनिग्रहस्याप्यनेनैव करणादिति भावः, कण्टको न खियां क्षुदशत्रौ” इति मेदिनी / अथ च परिस्फुटन्तो विकाशमानाः कण्टका पादादिवेधकतीक्ष्णामाः कण्टकेति प्रसिद्धाः यत्र गुल्मादिषु तेषां चर्वणे भक्षणे उत्कम् / दासेरकं-दास्याः पुत्रम् / भृत्ये दासेरदासेत्यमरवचनाव भृत्यश्च / अथ च उष्ट्रमेव 'उष्ट्रो दाशेरः' इतिहैमः / श्लेषे शसयोरेक्यमिति / जानीहि-अवेहि / अत्र रहस्यकथनाय द्वधर्थकपदोपादानम् / एवञ्चार्थद्वयेऽपि तात्पर्यावधारणाद्विशेष्यस्यापि श्लिष्टत्वाच श्लेषालङ्कारः // 39 // अथ तदुक्ताशयं साऽबुधदित्याह-तेनोदितिमिति-- तेनोदितं श्लेषमुखेन वाक्यं, सुखेन साऽबुद्ध विबुद्धवर्या / यद्वेत्ति विद्वत्परिचारकोऽपि, दुर्गं न किं सत्यकिनन्दना सा // 40 // . व्याख्या-तेन–धरणीजटेन / श्लेषमुखेन-द्वयर्थकपदप्रयोगेण। उदितं-कथितं / वाक्यं-वचनम् , अर्थात्तदर्थमित्यर्थः / विबुद्धवर्या-विबुद्धेषु विद्वत्सु वर्या प्रशस्या। सा-सत्यभामा। सुखेन-अक्लेशेन / अबुद्ध-ज्ञातवती / ननु कुतः स्त्रियाः तादृशी बुद्धिस्तत्राह / यदुर्गम्-अनवगाहम् गूढमर्थमिति यावत् / विद्वत्परिचारकोऽपि-विदुषां पण्डितानां परिचारकः सेवकः, अपिना विद्वांस्तु जानात्येव, तत्र किमु वक्तव्यमिति सूचितम् / वेत्ति-जानाति तदिति शेषः / सा-तादृशी विबुद्धवर्या / सत्यकिनन्दना-सत्यकेः तदाख्याध्यापकस्य नन्दना पुत्री / किन-कस्मान्न, अपितु अवश्यमेव वेत्ति, विद्वत्परिचारकस्य यत्र तज्ज्ञत्वम् तत्र विद्वसंतानस्य किं वक्तव्यमिति भावः, अत्र सत्यभामया तदर्थबोधरूपस्य विशेषार्थस्य विद्वतरिचारकस्य बोधेन विद्वत्सन्तानस्य तद्बोधकत्वरूपसामान्यार्थेन समर्थनादर्थान्तरन्यासोऽलङ्कारः / / 4 / / _ अथ तद्बोधानन्तरं सत्यभामाकृत्यमाह-निधायेतिनिधाय साऽन्तर्मनस तमर्थं, निधि धरित्रीव विचित्ररूपा / पुण्याङ्कुरोत्पत्तिमपेक्षमाणा, तस्थौ रसालिङ्गतमध्यदेशा // 41 // व्याख्या-सा-सत्यभामा / अन्तर्मनसं-हृदये / तं-धरणीजटोक्तम् / अर्थ-वाच्यम् , दासेरकोऽयमित्येवं वाच्यमित्यर्थः, तद्रूपम् / निधि-रत्नम् / विचित्ररूपा-विचित्रं रूपम् नेकविधम् स्वरूपं यस्याः सा तादृशी, अथ च विचित्रं विशेषेणाश्चर्ययुक्तं विलक्षं खिन्नं वा रूपं यस्याः सा तादृशी / धरित्रीव-धरणीव / निधाय-कृत्वा। रसालिङ्गतमध्यदेशा-रसेन जलेन आलिङ्गितः सम्पृक्तः मध्यदेशः गर्भप्रदेशः यस्याः सा तादृशी, अथ च रसायां पृथिव्यामालिङ्गितः सक्तः उपविष्टत्वादिति भावः, मध्यदेशः कटिप्रदेशः यस्याः सा तादृशी सखेदमुपविष्टा, यद्वा कपिलवृत्तान्तज्ञप्तिजन्याऽद्भुतरसेनालिङ्गितः, सम्पृक्तो