________________ प्रथमोऽध्यायः द्वितीयः पादः 25 वाकोऽनेनानया वा, स तत् सानुवाकः / घणन्तोऽप्यस्तु / लाजायाः जसन्तत्वाद् बहुवचनान्ताश्च स्युः / मन्तद्वन्द्वाल्लाजतसोः पर्यायोऽपि / इमे लाजाः अक्षताः / असवः प्राणाः / दाराः कलत्रम् / गृहाः गेह / वल्वजाः वीरणकटः / वस्त्रस्ये किम् ? इयं दशा वयोवस्था / सक्तवः यवभूयचूर्णः / रित्वाद् एकत्वाच्च / इदं सक्तु / चकारान्मन्त्रश्चोकारादिः / मन्त्रणं मन्त्रः / घण्यपि / वर्धः आयतं चर्म / मेढ़ः शपः / कुंठअङ्कोष्ठौ वृक्षौ / फलेऽपि पुंसि, हरीतकीवत् / षण्ठपण्डौ प्राणित्वात् पुंसि / ननु नपः कार्यित्वात् लिङ्गमुच्यतां पुंस्त्रीलिङ्गे किमित्याह-पुंस्नस्त्रियां तिस्रघनप् न नस्त्री / "पुंस्नु०" [2] इत्यत्र पुंलिङ्गस्य कार्यमुक्तम् / स्त्रीलिङ्गस्य तु स्त्रियां तिसृचतसृ इत्यत्र भविष्यति / अथ पुश्छित्यकः प्राप्त अष्टलन्तं किमित्याह - नए न न स्त्री / यत् तत् पुंलिङ्गम् / तयोः प्राप्तयोरपवादार्थमित्यर्थः // 33|| पुंलिङ्गं समाप्तम् // लिङ्गं स्त्रियाम् अतो वेदितव्यम् / योनिमतां भगवतां यन्नाम / माता जननी / स्वसा भगिनी / दुहिता सुता / ननन्दा भर्तृभगिनी / याता देवरभार्या / दनुकद्रुदितयो दानवनागदैत्यमातरः / योषित् युवतिः / स्त्री भार्या / जाया पत्नी / थोड्यान् / ऊत् / कमण्डलूः / अलाबूः / डीप् / आड् / यावक्रोशी / भावे / शमी / रोहिणी / शिशपा / पाटला, तरुत्वात् पुंसि प्राप्ते / यूका / पिपीलिका, प्राणित्वात् / द्राक्षा / तिन्तिरिकादि फलत्वानपि / मल्लिका / मालती / केतक्यादि, पुष्पत्वात् / ग्रामृता / रथकन्या / खलिनीत्यादि समूहार्थत्वात् / इत्युक्तापवादः / अनुक्तोऽपि / करुणा / दया / लीला / माला / स्रगित्यादि / ऊड्यान् किम् ? यवलूः, ग्रामणीः, कीलालपाः, वाच्यलिङ्गाः / शिष्टेछैनौ दीधितिलिद्दरद्धल् / शिष्ट उक्तादन्योऽनुक्त इत्यर्थः / इदन्त द्रुशब्दान्तादि इत् / इयं रुचिः, धूलिः, दर्विः / इयं दद्रुः त्वग्दोषः / शतद्रुः नदी / नौः द्रोणी / दीधितिः रश्मिः / लित प्रत्ययः / वक्षता / प्रभता / भावेऽपि. इयं दरद हृदयम / हूल / इयं त्विट दीप्तिः / विपँट् शीकरः / समित् इध्मम् वीरुत् गुल्मम् / यत्तु स्त्रियामेव साधितं तदनामापि / संपत् / विपत् / कृतिः / भक्तिरित्यादि / शिष्टः किम् ? मुनिः / पतिः / हरिः / इन्द्रः / सितद्रुः अब्धिः / हरिद्रुः / तरुः / शतद्रुः नदः / उदन्वान् / अनड्वान् / जात्याद्याः / स्त्रीलिङ्गाः / वर्षाद्याः / जसन्तत्वाद् बहुवचनान्ताश्च // 34 // शत्यादीति / विंशत्याद्या संख्या स्त्रियां स्यात् / सङ्ख्येये एकार्था च / विंशतिः पुरुषाः, स्त्रियः, कुलानि वा इत्याद्युक्तम् / योन्यादि कटसन्तः [2 / 34-37 "अप्योस् [2 / 29] इति पुंसि पाठात् पुंलिङ्गश्च / इयं योनिः / अयं योनिः भग इत्यादि / कम्बली मे, कम्बल मे च // 35 // शिल्पचतुद्विपदाभ्यभिधानम् / एषां नाम उभयं स्यात् / शिल्पी, शिल्पः / एवं वरटी, वरटः / सुवर्णकारी, सुवर्णकारः / कलादी, कलादः, नापिती, नापितः / चतुष्पदानाम् / हस्तिनी, हस्ती / कूर्मः, कूर्मी / द्विपदानाम् / ब्राह्मणी, ब्राह्मणः / क्षत्रिया, क्षत्रियः / शूद्रा, शूद्रः / मयूरी, मयूरः / योनिमतामिति सिद्धे सयोनिशब्दो न स्त्रीत्यर्थम् / यावत् कटी प्राण्यङ्गः, कटः वीरणकृतः // 36 // विभीतकादिः कटसन्तः नपि च विस्पाठात् त्रिलिङ्गः / [विस् प्रत्याहारः / ] विभीतकी, विभीतकः, विभीतकम् / तटी, तट:, तटम् / यावत् कटम् / शपोऽश् पुंस्यपि / विस् नप्यपि पञ्च.-४