________________ 24 पञ्चग्रन्थी व्याकरणम् पिटकाः / स्त्रियां वर्षाः / पुंसि वज्रमास-वर्णनीलादि-विष-शङ्क-गृह इत्यादि रित् / पकार: प्रत्याहारार्थः / नपुंसकलिङ्गान्ते नप् / अर्धर्चाद्यन्ते अप् // 27|| नए समाप्तम् // पुंसीत्यादि / अतः परं लिङ्गं पुंसि ज्ञेयम्, आ स्त्रीलिङ्गात् / अत् स्नुत् / अदन्तः सन्तः [नन्तः, उदन्तः] शब्दः पुंसि / अत्, वृक्षः / घटः / स् , अङ्गिराः / दोः बाहुः / न् , प्लीहा व्याध्यंशः / मूर्धा शिरः / उत् , सेतुः जलबन्धः / केतुः ध्वजः, इत्यादि परः / अन्ते किम् ? भावे, गरिमा / महिमा / भावादन्तादि नप्त्वे प्राप्ते अपघण्णघनकोकि [इत्यन्ताः] / अतः किम् ? स्तस्त्रीत्वेभ्योऽप / शरः / जयः / गमः / अपघनः / हवः इत्यादि / घण अकर्तभावे / पाक: त्यागः / निकेतो गृहम् / क्लेशो दुःखम् / अलङ्कार आभरणम् / न्यदो णः / न्यादयः / पचादेर्घः / पेचकः / उरच्छदः / न / कायज् वा चादेः / यज्ञः / यत्नः / पाप्माः / अजाद्यात् कः / विघ्नः आखुत्थो वर्तते / अन्तत उक्तिः / अन्तधिः निधिः / जलधिः / सूत्रे व्यत्ययश्छन्दोऽर्थम् / कूपादीनां नाम च / कूपः प्रधिः उदपानः / अब्धिः / समुद्रः / उदन्वान् / पुष्यः सिध्यः / असिः करवालः / नदः भिद्यः उध्यः लोहितः / अब्दः घन: जीमूतः शरण्यः / कोष्ठः कुशूल: पलतः / स्वः त्रिदिवः इरामतिः / वज्रः पविः दम्भोलिः शतकोटिः / दन्तः रदनः दशनः / च्छिदिः भिदिः परशुः / चक्री स्यन्दनः / रश्मिः घृणिः / धान्यः शालिः व्रीहि: तिलः / क्रतुः वितानः यज्ञः / विभक्त्यन्तसङ्घात् प्राण्यादीनां तद्भेदस्य च नाम / पिता / भ्राता / सप्तिः / कपिः / कृमिः / तिमिः / वृषलः / कुलालः / मर्त्यः मनुष्यः / विट् / वैश्यः / वणिक् / अनड्वान् / पारापतः / कपोतः / तद्विशेषस्य / दूतः / पण्डितः / कविः / यतिः / विपश्चित् / सुहृद् / दुहृद् इत्यादि / एकत्वनिर्देशाद् बहुप्राणिसमवाये न स्यात् / इयं श्रेणिः शिल्पसमुदाय: परिषत् / अगः पर्वतः शैल: अद्रिः गिरिः / अगो वृक्षश्चोच्यते / तद्भेदः / तालः / तमालः / शालः / चूतः / आम्रः / अर्जुनः / असनः / दैत्यः बलिः नमुचिः मुनिः असुरः / [राट्] राष्ट्रं जनपदः / अन्यद् गोष्पदम् / तद्भेदः / अङ्गाः / मगधाः / पाञ्चालाः / वृजयः / प्राग्वल्लिङ्गसंख्यैव, वक्ष्यति च // 28 // वृत्तं [वर्णेति] / र्वणादे रित्वान्नप् च / तद्भेदः / नीलः / पीतः / लोहितः / हरितः / द्रव्यवाचि त्रिलिङ्गता / नीलाऽश्वा / विषः हालाहलः सो गरः डुण्डुभः / मासः / शुचिः / शुक्रः / नभस्यः / मरुत् / देवः / तद्भेदः / इन्द्रः / आदित्यः / अग्निः / वह्निः / मरुद् वायुश्चोच्यते / तद्भेदश्च / मरुद् वातः पवनः उदानः समानः / ध्वनः / ध्वानः ध्वनिः कलकलः कोलाहलः / तद्भेदः / उदात्तः / अनुदात्तः / स्वरितादि / ऋतुः / हेमन्तः / वसन्तः / रात्रोऽषि / कृतसमासाजन्तो, रात्रोऽषीत्यसमाहारे / अहश्च रात्रिश्च / "अहोरात्राविमौ' पुण्यौ' // सर्वरात्रः / अर्धरात्रः / वर्षारात्रः / अषि किम् ? अहोरात्रम् / [नृपार्थनाभिः / ] अयं नाभिः राजा / नृपार्थं किम् ? इयं नाभिः प्राण्यङ्गम् / अप्योस् प्रत्याहारौ / अप् अर्धचादि / योस् योन्यादि कटसन्तः [2 / 34-37] / तौ पुंस्यपि तत्र दर्शितौ / व्रातादि पुंसि // 29 / / अयं दुन्दुभिः / नाक्षो किम् ? दुन्दुभ्या अक्षेण // 30 // ___षष्ठे नाडीव्रणः / नाडी किम् ? शिरोव्रणम् / यानेभ्यो युगं च / रथयुगः, शकटयुगः / भ्यस् किम् ? अनोयुगः / यानेभ्यः किम् ? कलियुगम् / वस्त्रयुगम् / वाकान्तः समासः / अनुक्रान्तो