________________ प्रथमोऽध्यायः द्वितीयः पादः 23 "अब्धण्घनकोकिकान्तः" [2 / 30] इति / भक्तम् अन्नम्, ओदनः / आस्पदं प्रतिष्ठा / यवसं घासः / पुरीतत् अन्त्रम् // 5 // कुहकेत्यादि / अतो अदन्तादिषु स्त्रीत्वे प्राप्ते नप् / कुहकम् इत्यादि सुगमं यावद् दशमान्ते / एकपुण्यात् सुदिनादहं स्यात् [2 / 12] कृतसमासान्तम् / एकाहं, पुण्याहं, सुदिनाहम् // 6-10 // तथा अव्यक्तलिङ्गोक्तौ / अव्यक्तस्यास्पष्टस्य लिङ्गस्योक्तावभिधाने यत् प्रयुज्यते तन्नप् / किं तस्यागमे जातम् / यत् तत्रोत्पद्यते तदानेयम् / इमानि गोरूपाणि / गावो बलीवर्दाश्च समेता उच्यन्ते / भूतानि / सर्वे प्राणिनः / सप्तमी किम् ? यच्छिष्टैरव्यक्तलिङ्गोक्तौ प्रयुज्यते तन्नप् / तेन सुतशिशुगोसिन्धुशब्दानां न नप्त्वम् // 11 // सङ्ख्येत्यादि / [सङ्ख्येयसङ्ख्यैकपरा शताद् यत् / शतादिसङ्ख्याऽदन्ता नम्, सङ्ख्येये वर्तमाना एकंपरा एकार्थनिष्ठा च स्यात् / शतं पुरुषाः स्त्रियः कुलानि वा / एवं सहस्रम्, अयुतम् / अत् किम् ? इयं लक्षा कोटी च / अयं शङ्कः / सङ्ख्येये किम् ? शतं नृणां, द्वे शते, त्रीणि शतानि / सङ्ख्या किम् ? लिङ्गाधिकारे सर्वसङ्ख्यार्थम् / तेन "शत्यादि०" [2 / 37] स्त्रियां वक्ष्यति / सा सङ्ख्येये सङ्ख्यैकार्थपरा स्यात् / विंशतिः पुरुषाः / एवं त्रिंशत्, नवति विंशत्या पुरुषैः / सङ्ख्येये किम् ? पुरुषाणां विंशतिः, द्वे विंशती, तिस्रो विंशतयः / आदन्द्विगुः / आकारान्तोऽनन्तश्च द्विगुर्नप् / स्त्रिया अप्रत्याहारयावत् / स्त्रीलिंगं चातः च् [2 / 39] यावत् / षिति [?] | पञ्चखट्वं, पञ्चखट्वी / दशमालं, दशमाली / अनुः [?] / पञ्चतक्षं, पञ्चतक्षी / पञ्चराजं, पञ्चराजी / ईस्ति / षष्ठीसमासे / सुरादि च / यवसुरं, यवसुरा / भूतनिशं, भूतनिशा / वृक्षच्छायं, वृक्षच्छाया / गोशालं, गोशाला / क्षत्रियसेनं क्षत्रियसेना / नगरं, नगरी / इदम् इयं वा अचिः ज्वाला च / अत् प्रत्याहारार्थः / विश् इति स्त्रियां विभीतकादि: कटसन्तो [2 / 39] / विश् प्रत्याहारोऽत्र / पागन्वप च / विभीतकं, [विभीतकः / तटं, तटः / भल्लातं, भल्लतः / आमलकम, आमलकः / ] इत्यादि / अर्धचाद्यन्तेऽप् नप् / अप् प्रत्याहारार्थम् / अपः पुंसि पाठाच्च पुंलिङ्गत्वं च / अर्धचम्, अर्धर्चः / वारं, वारः इत्यादि / अष्टादश दिनस्य / कमण्डलुः / दिननामाप्युभयम् / दिनं, दिनः / दिवस, दिवसः / वासरं वासरः / अहन् नपि च विशे / [आसनं, आसनः / अन्धकारं, अन्धकार:] // 12 // . शङ्खः पद्मः स्यादम्भोजे / जलजेऽर्थे उभयलिङ्गौ स्तः / निधिः पुंस्येव / भूतः प्रेते पिशाचेऽर्थे उभयलिङ्गः / अन्यत्र भूतम् उपचितम् , / भूतानि प्राणिनः / उपमानक्रियावचनश्चाभिधेयलिङ्गः / पितृभूतोऽयं, पितृभूतमिदम् / पक्ष्मः, पक्ष्मं तूलम् / अर्मम् अक्षिरोगः / शङ्कः सङ्ख्या / पाशः बन्धनम् / पिण्डः काय: / पिण्डम् अयः / सत्त्वं गुणः, सत्त्वः प्राण इत्यादि // 26 // मुकुलोऽस्त्री। मण्डलोऽपि / अत्र लिङ्गाधिकारे यो रित् सोऽत्रापि नपर्थम् / "अर्धर्च" [2 / 12] इति व्यच्सु यदुक्तं तदन्तं त्र्यच्कार्ये / कुटजं, कुटजः मुनिगृहम् / रणः, रणं युद्धम् / एवं र्धन-सि-हिमर्-ओर्षध-वर-र्दारु-धनूर्-शिखर-हल-लोहर्फल-क्रकच-दैवर्-गुल्मर्-कन्तिार-मण्डल