________________ 26 पञ्चग्रन्थी व्याकरणम् प्रत्याहारार्थम् / प्रियङ्ग राजकः / आच् / आत्वे त्यादिरशिषौ च / यावदत्र पाठात् स्त्रीत्वं च / पञ्चखट्वीत्यादि / षट्पदीयम् // 37 // शल्वाच्यवदित्यादि / वाच्यस्य यल्लिङ्गः शल् सर्वादिः / सर्वे नराः / सर्वाः स्त्रियः / सर्वाणि कुलानि / एवं, त्वं ना / त्वं स्त्री, त्वं कुलम् / वयं नराः / वयं स्त्रियः / वयं कुलानि / यः नरः / या स्त्री / यत् कुलम् / स: नरः / सा स्त्री / तत् कुलम् / युष्मदस्मत् सङ्ख्याद्यलिङ्गं स्यात् / नाम संज्ञाशब्दः / प्रायो बहुलं वाच्यवत् / सरयूर्नाम नदी / एवं कुहुर्नष्टचन्द्राऽमावास्या / श्रीकण्ठो मालवको देशः / मथुरा नगरी / अयं सिन्धुः समुद्रः / इयं सिन्धुर्नदी / अयं किष्कुः हस्तः / इयं किष्कुः वितस्तिः / नवसारिका पुरी / कान्यकुब्जं नगरं, संयानं च / मथुरह्रदो ग्रामः / तोटकं वंशस्थ इत्यादि वृत्तम् / प्रायः किम् ? न च वरेन्द्री तीरभुक्तिः / कोङ्कणकं काश्मीरं नाम देशः / शालुकिनी लिङ्गाषाढीनामः ग्रामः / तैलावटं श्रीभवनं नाम ग्रामः / तदहरभवे च वक्षति च [?] / स्रग्धरा आपीड: मालिनीत्यादि वृत्तं छन्दोजात्यपेक्षया वा / गुणः / श्वेत:- पटः / श्वेता पटी / श्वेतं वस्त्रम् / शुचिः ना / शुचिः स्त्री / शुचि कुलम् / सङ्ख्या / एको ना / एका स्त्रीं / एकं कुलम् / पञ्च नराः / पञ्च स्त्रियः पञ्च कुलानि / तथा सिध्यति यस्तदर्थे / तदर्थे इति तस्य विवक्षितवाच्यस्यार्थे यः शब्दः सिध्यति स वाच्यवत् / क्षीरं पिबतीति क्षीरपाः ना, स्त्री, कुलं वा / एवं ग्रामणी: ना, स्त्री, कुलम् / . यवलूः ना, स्त्री, कुलम् / काष्ठभित् ना, स्त्री, कुलम् / आत्मभरिः ना, स्त्री, कुलम् / गोदोहनो घटादिः ना, स्त्री, कुलम् / दाक्षिः ना, स्त्री, कुलम् / गोमान् ना / गोमती स्त्री / गोमत् कुलम् / कृतकटः ना / कृतकटा स्त्री / कृतकटं कुलम् / प्राप्तालमापन्नवद् [आदिके ति] / आदिः पूर्वपदं यस्य तदादिके तीति समासे, अर्थान्ते द्विगौ च वाच्यवत् / प्राप्तो जीविकां प्राप्तजीविकः ना, प्राप्तजीविका स्त्री, प्राप्तजीविकं कुलम् / अलं जीविकायै अलञ्जीविक: ना, अलञ्जीविका स्त्री, अलं जीविकं कुलम् / आपन्नो जीविकाम् आपन्नजीविकः ना, आपन्नजीविका स्त्री, आपन्नजीविकं कुलम् / अलं चादिः / निष्कौशाम्बिः / अतिनुः / अर्थान्तः / ब्राह्मणाः 3 [ब्राह्मणार्थ ओदनः, ब्राह्मणार्था शिखरिणी, ब्राह्मणार्थं पक्वान्नम् / ] सः, सा, तत् / द्विगुः / पञ्चकपालः देशः भोजनः पुरोडाशः / पितः / परलिङ्गे प्राप्ते चार्थे पितोः द्वन्द्वतत्पुरुषयोः परस्योत्तरपदस्य यत् तल्लिङ्गं स्यात् / इमौ मयूरीकुक्कुटौ / इमे कुक्कुटमयूर्यो / इमौ अश्ववडवौ / इमे अश्ववडवाः / इति द्वन्द्वे निपातनात् पुंस्त्वम् / पित् / अर्धपिप्पली / राजपुरुषः / राजदारिका / नीलोत्पलम् // 38 // स्त्रीलिङ्गं समाप्तम् // समाप्तं च लिङ्गानुशासनम् // (2) अतोऽस्त्रितरादितः स्वम् / [1 / 2 / 1 / 2 / ] अकारान्तान्नपः परं सु अम् कार्यि अम् स्यात् / कुण्डम् / अतिजरसम् / हे कुण्ड / र्तक / नपः किम् ? पण्डकः / त्रितरादितः / इतरादेर्नपोऽतः स्वम् तरित्स्यात् / इतरत् / कतरत् / परमयतमत् / र्तक् / त्राद् वा य रितो यरम् / हे अन्यत् / श्लोक: - इतरान्यतरान्येभ्यो डतरडतमान्ततः / एकतरं परित्यज्येतरादिः पञ्चको गणः // नपः किम् ? कतरः / एभ्यो विहितं किम् ? प्रियकतरः /