________________ प्रथमोऽध्यायः द्वितीयः पादः (.3) लुक् / [1 / 2 / 1 / 3 / ] नपः स्वम् लुक् स्यात् / वारि / तत् पयः / (4) स्वित्ववेकः / [1 / 2 / 1 / 4 / ] सु इत् स्यात् लुग्वा इक इगन्ताच्च यः परः / हे वारि / हे वारे / हे कर्तृ / हे कर्तः / प्रियत्रि कुलम् / प्रियतिसृ कुलम् / (5) अचि स उक्तपुंस्को वाऽऽपि / [1 / 2 / 15 / ] वा टाप्यजादौ नबिगन्तः उक्तः पुमान् यत्रार्थे स उक्तपुंस्थोऽर्थः / तच्छब्दः स इति पुमानिव स्यात् / ग्रामणिना [कुलेन] / ग्रामण्या कुलेन / शुचिने [वस्त्राय] / शुचये वस्त्राय / आपि किम् ? शुचिनी [कुले] / अर्थः किम् ? पीलुने फलाय / नपः किम् ? चित्रग्वा स्त्रिया / (6) अस्थिसक्थ्यक्षिदधेरनिष्टः / [1 / 2 / 16 / ] नब् इकोऽस्थ्यादेरन्तोऽन् स्याद् वाऽऽपि अचि / अस्थना / सक्थ्ना / अक्ष्णा / दना / अनः अः किम् ? दधनि वा / दधेरिति पुंनिर्देशाद् द्वन्द्वैकत्वस्य वा पुंस्त्वम् / अस्थ्यादेरनब्वृत्तेष्वात् स्यात् / प्रियदना ना / प्रियदध्यै स्त्रियै / अन्यथा दधीनि अन् स्यादिति ब्रूयात् / . (7) नुम्सुपि / [ 1 / 2 / 17 / ] नब् इको नुम् स्यात्, सुप्यचि / वारिणी / प्रियतिसृणि / 'कर्तृणि / रित्वात् परं बाधते / (8) अच् शौ / [1 / 2 / 18 / ] नुमेव / वनानि / बहुवृक्षाणि / रुलः / अचः परस्य कलर्नुम् शौ / उदश्विन्ति / अतिजरांसि / रुल्जातित्वात् / काष्ठतक्षि / (9) आदि वार्लः / [1 / 2 / 1 / 9 / ] लाभ्यां परस्य रुलः आदितुम् स्याद् वा शौ / बहूर्जिः / बहूजि / सूर्जिः / सूञ्जिः / सुवल्लि / सुवल्नि / रुलः किम् ? सुफुल्लि वनानि / अन्यो यमो रुल इतीच्छति तदा पाठ: 'आदि यम् वा' / अर्थस्त्वयं स्थालान्तस्यादियम यदि स्यात् तदा नुम् रुल आदिरित्यावर्तते // 2 // 1 // अज्झोऽतुरन्यत्र न वाऽश्न ईत्यात् शप्श्यात् Wशौ गी गिगगीयदाडः / टौ स्ये डितष्टयाऽऽडिति न्यत्सखियो ड्यौ त्खौ रुडस्तुई युदे जसोरेड् // 1 / 2 / 2 // वृत्तम् // (10) अज्झोऽतुः / [ 1 / 2 / 2 / 1 / ] अद्भूतो झ यस्मात् ततः परस्य शतुः नुम् वा शौ / ददन्ति / ददति / जक्षन्ति / जक्षति / अज्झ किम् ? कुर्वन्ति / __(11) अन्यत्र न / [ 1 / 2 / 2 / 2 / ] अशौ नुम् न स्यात् / ददती स्त्री, कुले वा / जक्षत् / जक्षतौ / अज्झोऽतुः किम् ? कुर्वन् / (12) वाऽश्न ईत्यात् / [1 / 2 / 2 / 3 / ] आद् अवर्णान्ताद् अश्नः श्नावर्जितात् परस्य शतुः नुम् वा स्यात् ईत् इकारे परे / अर्थाद् दीर्घोः परतः / तुदती तुदन्ती कुले स्त्री वा / करिष्यन्ती कुले / करिष्यती कुले / करिष्यन्ती स्त्री / करिष्यती स्त्री / [ई इति डी गी इत्येतयोनिर्देशः / ङीग्योरित्यभिप्रेतः / ] डीग्योः किम् ? तुदन्ति / तुदता / आत् किम् ? अदती / अश्नः किम् ?