________________ [ // अथ द्वितीयः पादः // ] हुस्वो नपोऽतोऽस्त्रितरादितः स्वं लुक् स्वित्ववेकोऽचिस उक्तपुंस्कः / वाप्यस्थिसक्थ्यक्षिदधेरनिष्टः नुम्सुष्यचः शौ रुल आदि वार्लः // 1 / 2 / 1 // वृत्तम् / (1) इस्वो नपः [ 1 / 2 / 1 / 1 / ] नपुंसकलिङ्गस्यान्तोऽर्थादज्झस्वः स्यात् / सोमपम् / अतिरि / नपः किम् ? ग्रामणीः / नपुंसकलिङ्गमाह / सप्ताधिका विंशतिरत्र 27, पुंसि षट् च, स्त्रियां पञ्च तु वृत्तभेदः / नाम नपुंसकलिङ्गमिदं लस्तुत्वतनत्तहलोरुरयं द्वयच् / म च गृहे र्जरतं च तमो द्वास्तालुरणार्धनपूर्हदयं भम् // 1 // रं च तनोर्दलखामृतदुःखमांसहिमं मुखशम्मघ विड् भी। पुण्य बिलौषधवस्त्रजलास्रदारुधनुश्शिखराजिरपिच्छम् // 2 // हलोदराणां फलपुष्पलोहमण्डनोद्भिजव्यञ्जनजात्यपत्यतोकाणां क्रियाचादिविशेषचार्थदेक्ये द्वित्रिपात्रादि च चादितः पथः // 3 // ङस्त्येतदादित्व उपक्रमोपज्ञे नाम्नि कन्था यदुशीनरेषु / . छाया बहूनां च सभा च सङ्के राजर्थरक्षः सदृशां गृहे तैः // 4 // स्वाङ्गे सुहन्न्यायदलेषु धर्मे मित्रेऽथ सारार्धमु कर्मभावे- / ऽणादिः समूहे च कृदच्च भावे भक्तास्पदात्तं यवसं पुरीतत् // 5 // कुहकचिबुके लिङ्गं बीजं ललाटविटे पिटं कणिशबडिशे शीर्षाक्ष्यण्डं कुटुम्बसमीपदम् / सबुशपलिशे रूपं तल्पं कुसीदमृणं गुदं क्रकचशरणे शिल्पं पृष्ठं कुकुन्दरचामरे // 6 // कारणकारकलोष्टकरोटं साहसकुङ्कमकित्वनिरुक्तम् / " अक्षरमन्तरमूषरदैवतबाहु च जानु कसेरु च वैरम् // 7 // सिध्मेध्मकुर्पोडुपयुग्मगुल्मश्राद्धं गृहस्थूणशरोर्णरत्नम् / चिह्नान्तरीपोक्थबिसार्धटाह: पात्रोल्मुकाभ्रं कुलिशं कलत्रम् // 8 //