________________ प्रथमोऽध्यायः प्रथमः पादः (145) इसुसः / [1 / 1 / 17 / 2 / ] इसुस्प्रत्ययान्तस्याचादेः अ: सि स्यात् तत्कुप्वोः / सर्पिष्कुण्डम् / सर्पिष्पात्रम् / पदात्, परमसर्पिः कुण्डम् / वृत्तौ किम् ? सर्पिः करोति / (146) वाऽऽकाङ्क्षायाम् / [1 / 1 / 17 / 3 / ] अयमः सिः वा स्यात् तात्कुप्वोः कार्यिनिमित्तयोराकाङ्क्षायां सत्याम् / परमसर्पिष्करोति / यजुष्पिबति / भिन्द्युः [कुम्भम्, भिन्यु]ष्कुम्भम् / अः इति वा त्वाकाङ्क्षायां किम् ? तिष्ठतु सपिः पिब त्वमुदकम् / (147) नाक्रियैकार्थे / [1 / 1 / 17 / 4 / ] अयमः सिः न स्यात् तत्कुप्वोः, अक्रियैकार्थे क्रियापदवर्जिते एकार्थे पदे परे, पूर्वपरयोः समानाधिकरण्ये, आकाङ्क्षायां सत्याम् / सर्पिः कालकम् / धनुः प्रगुणम् / अक्रियापदे किम् ? सर्पिष्पीयते / सर्पिः पीयते / एकार्थे किम् ? सर्पिष्कुम्भे / सपिः कुम्भे / धनुष्पाणौ / धनुः पाणौ / अः इति वा / (148) स्वादौ / [1 / 1 / 17 / 5 / ] प्रत्यये परे अचादेरः सिः स्यात् तत्कुप्वोः / अयस्कल्पम् / धूष्पाशा / कुरुतस्कल्पम् / भिन्धुष्पाशम् / अचादेः प्रात:कल्पम् / . (149) काम्ये रोः / [1 / 1 / 17 / 6 / ] अचादे रोः र: सि स्यात्, काम्ये परे / अयस्काम्यति / सर्पिष्काम्यति / अचादेः किम् ? उच्चैः काम्यति / रोः किम् ? गीष्कामिति / स्वादौ किम् ? तैः काम्यति / (150) वा तिरसः / [1 / 1 / 17 / 7 / ] अस्यवृत्तावः सिर्वा स्यात् कुप्वोः / तिरस्करोति / तिर:करोति / तिरस्कृत्य / तिर:कृत्य / अवृत्तौ, तिर:कृत्वा / नाप्रतिपदोक्ते / उच्चारिततिर पाणिः / ___(151) कस्कादि / [ 1 / 1 / 17 / 8 / ] कृ, तस्यादेशो निपात्यते वा / पुनरष्टगासौ / कस्स्कः कांस्कान् भ्रातुष्पुत्रः सद्यस्कालो मेघस्पिण्डः / साद्यस्कोऽयस्काण्डः कान्तः कर्णः सद्यस्की टे भास्कुः // 1 / 1 / / शुनस्कर्णस्तमस्काण्ड: स्युः सर्पिष्कुण्डिका पदात् / यजुष्पात्रं बहिष्पूलं धनुष्कपालमीदृशाः // 12 // कस्का तु नादेशत्वास्पदं च / सद्यस्क्रयणां की: तत्र भवः साद्यस्क्रुः / अयसः काण्ड्यादौ, अयस्काण्डः अयस्कान्तः अयष्कर्णः / टे परे, भास्कुः / भास्कर इत्यर्थः / स्युश्चत्वारः पदात् परे पूर्वेणापदात् सिद्धा इसुस इति / परमसर्पिष्कुण्डिका / [परमबहिष्णूलम् / परमधनुष्कपालम् / परमयजुष्पात्रम् / ] एकीयमतं पारायणिका आहुः / भाष्ये वृत्तौ च 'नित्यं समासेऽनुत्तरपदस्थस्य' [पा० अ० 8 / 3 / 45] इत्यत्र परमसपिष्कुण्डिका इत्येव प्रत्युदाह्रियते / तन्मते नास्यापाठः / आकृतिगणत्वादाद्यैः / तथा चौरोऽत्र तस्कर इत्यादि च / द्वयोः प्रामाण्यादिह विकल्पः // 1 / 1 / 17 // पादोऽयम् // // इति श्रीबुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे प्रथमाध्याये प्रथमः पादः //