________________ प्रथमोऽध्यायः द्वितीयः पादः लोकायतालीढभगेङ्गदाङ्गं स्फारं शर्फ गह्वरबाष्पशष्पम् / शालूकवृन्दं पदराजसूयं सूक्तं प्रियं तुम्बरुवाजपेयम् // 9 // कान्तारतीरे शिशिरं करीरं शृङ्गाङ्गदूराररिभाण्डसक्थि / / सूणोष्णपीठं शवगन्धमादने चैकपुण्यात् सुदिनादहं स्यात् // 10 // किसलयजगच्च भुवनं त्रिविष्टपं कशिपुपञ्जरं कलभम् / प्रातिपदिकं कुटीरं यकृदप्यव्यक्तलिङ्गोक्तौ // 11 // सङ्ख्येयसङ्ख्यैकपराशताद् यद् आदन्द्विगुर्डस्तिसुरा निशाच्छा- / या शालसेनानगराचिषौ त्विश् अर्धर्चवारासनमन्धकारः // 12 // ओदनचन्दनशृङ्गविधानाः तालखलीनमठासनपानाः / स्तेनविमानयुगन्धरसूत्राः गोमयपत्रपवित्रकषायाः // 13 // मालकपुस्तकमस्तकनिष्काः मोदकमञ्चकशाटकशूकाः / मूषिकतण्डककर्पटशुल्काः श्वेडितपातकभूषणकूटाः // 14 // अर्बुदलोहितयौवनवृत्ता आश्रमसंक्रमसङ्गमबिम्बाः / देहसुवर्णवसन्तपलालाः कुण्डलतैलतमालमृणालाः // 15 // मङ्गलशम्बलशालकरीषाः तोरणतोमरपार्श्वशरावाः / कर्षदृढामिषमूलसहस्राः माषबलोपलविक्रमशीलाः // 16 // चरकचषकौ खण्डं मुण्डं तडागकरण्डको निकटकपटौ कुण्डं काण्डं विहारनडायुताः / पुलिननलिनौ षण्डं दण्डं शरीरतृणव्रणा: शरकशयनौ गूथं यूथं चषालमलौ तलः // 17 // शकलचमसौ मुस्तं बुस्तं शतव्रतदेवताः चरणकवचौ हस्तं पुस्तं दिनश्च कमण्डलुः / / समयकवियौ दीपं द्वीपं पिनाकतटव्रजाः करकशकरौ नेत्रं मूलं रसांशनखव्रणाः // 18 // ऐरावतप्रयुतसान्ववतंसजृम्भाः कर्पासबाणभुवनाशकाशकोशाः / वल्मीकशाकवरपारविटङ्कतङ्का अङ्गारताण्डवकिरीटकपालवालाः // 19 // पूर्वप्रवालशतमानकबन्धतीर्थाः गाण्डीवगेहमलयाम्बुजजन्तुसूर्याः / कार्षापणाव्ययवितानसपल्लवापराणोपवासफलकोत्पलवारबाणाः // 20 // पिण्याककल्कमधुपङ्कवितङ्ककुञ्जाः निर्यासकुक्कुटविडङ्गखलाभिधानाः / केदारकंसभवनाढववक्नछत्रानीकाः निदाघघृतसेचकयूषमेषाः // 21 //