________________ 14 पञ्चग्रन्थी व्याकरणम् खे / अतः किम् ? ता अत्र / रुः किम् ? पुनरत्र / (130) हलीत् त्सादनवृत्ति / [1 / 1 / 15 / 6 / ] तादेशात् सात् परो रु विसर्गो हलि परे इत् स्यात्, नो वृत्तेरभावोऽनवृत्ति, तत्र चेत् स स्यात् / एष स हतः / परम स पक्ता / अनवृत्ति किम् ? असौ गतः / तादेशः किम् ? वत्सः कः / एष कः / स कः / स्यः कर्ता, नात्र, व्यवधानात् / (131) वृत्ते / [1 / 1 / 15 / 7 / ] तादेशसात् परो रुः इत् स्यात्, वृत्तविषये पादपूरणे / / अहल्यपि / प्राकोपि यः प्राक् च यकाविनार्थं सोऽथैव दुर्दान्तकृतान्तदंष्ट्रः / (132) ह्निांपतिष्वः / [1 / 1 / 15 / 8 / ] अहरादीनां अः कार्यां पत्यादिषु परेषु रो वा स्यात् / अहर्पतिः / गीपतिः / धूप॑तिः / अयॊ वा / [रेफाभावे], प्रचेता राजः / प्रचेतो राजः / उषर्बुधः / आकृतिगणौ / अः इत्यापादम् / (133) रशि / [1 / 1 / 15 / 9 / ] अ: कार्टी र स्याद् अशि परे / विभुर्गतः / प्रातरत्र / पुनर्याता / पुना रो नित्यार्थः / (134) श्छव्यशर्षु / [ 1 / 1 / 15 / 10 / ] अ: स स्याच्छवि अशपरे परतः / कश्छादयति / कस्तरति / अशपर किम् ? असे: त्सरुः कः / अशर् आपादम् // 15 // वा शरि लुक्खरि कौष्क च पौ पं सुच्सि निरामिसुसः प्लुततस्त्योः / सुप्ति नमः पुरसोस्तु समासेऽधः शिरसोऽप्यपदात्तु पदेऽतः // 11 // 16 // दोधकम् / [वा शरीत्यादि] (135) वा शरि / [1 / 1 / 16 / 1 / ] अः स् स्याद् वा शरि अशपर परतः / कश्शेते / क: शेते / कष्षण्डे / कः षण्डे / कस्साधुः / कः साधुः / सप्पिष्षु / (136) लुक् खरि / [1 / 1 / 16 / 2 / ] खपर शरि अ: लुग्वा स्यात् / वृक्षा स्थातारः / वृक्षास्स्थातारः / खरित्यापादम् / (137) को एक च पौ 5 पम् / [1 / 1 / 16 / 3 / ] अ५ कः स्याद् वा अशपर खरि कौ परे, तथा पौ ५प वा / कस्करोति / क: करोति / [क करोति / ] खे च / [क: खनति / क खनति / पौ च / कः पचति / ] क पचति / फे च / [क: फलति / क फलति / ] खरि किम् ? को गतः / अशपरे किम् ? वासः क्षौमम् / अद्भिः प्सातम् / कुप्वोरापादम् / (138) सुच् सि / [1 / 1 / 16 / 4 / ] सुच्प्रत्ययस्तद्विसर्जनीयो वा सि स्याद् वा, तत्तु कुप्वोः / द्विष्करोति / द्विः करोति / खे च, द्विष्पचति / [द्विः पचति / द्वि पचति / ] फे च, [द्विष्खनति / ] सुच् किम् ? ततः कृतम् / अशपर किम् ? द्वि:प्साति। खरि किम् ? द्विर्गतः / कुप्वोः किम् ? त्रिश्छादयति / सिरित्यापादम् / ___ (139) निराम् / [1 / 1 / 16 / 5 / ] निरादेर: सिः स्यान्नित्यं पार्थक्यात् तत्कुप्वोः / निष्कृतम् / निष्पीतम् / चतुष्कपालम् / चतुष्पात्रम् / [दुष्कृतम् / दुष्पीतम् / बहिष्कृतम् /