________________ प्रथमोऽध्यायः प्रथमः पादः 13 (121) रसुप्यः / [1 / 1 / 14 / 9 / ] र रेफः पदान्तस्थोऽसुपि अः इति विसर्जनीयः स्यात् / गी: / धूः / परत्वात् प्राद् दीर्घः / सुपि, वाभिः / (122) रु / [1 / 1 / 14 / 10 / ] रुः अत् स्यात् / वृक्षः / (123) अह्नो रः / [1 / 1 / 14 / 11 / ] अह्रोऽन्तोऽन्ते रुः स्यात् / दीर्घाहः कालः / अहः / अहोभिः / अपदान्ते, अहनी / . . (124) रो लुच्यरि / [1 / 1 / 14 / 12 / ] अह्रोऽन्तो ते वर्तमानो र: स्याल्लुचि लुक्शब्देन प्रत्ययलोपे सति परस्याशीत्य स्यात् संवत्वाद् असि परे अरि रेफवर्जे / स्वरूपरात्रिरथन्तरेष्वित्यन्ये / अहरधीते / अर्हर्दत्ते / दीर्घाहम् / असि, अहर्वान् / लुचि किम् ? हे दीर्घाहो निदाघ / अरि किम् ? अहो रूपम् / अहो रसः / अहा रस इत्यन्ये / रोर्बाधकत्वेन तत्कार्याण्यपि बाधते / रुः सजूः सोः / अजुषोन्तस्य सस्य च. पदान्तस्थस्य रु: स्यात् / सह जुषतीति सजूः / सजूाम् / कः पयोभ्याम् / अनन्ते, सजुषौ पयसी / पुंस्कामा // 14 // [अघोभगोभोर्वशि गिद्य वाचि वोल्पप्रयत्नश्च तथोजि अत्तोऽ- / द्धष्युद्धलीत् त्सादनवृत्ति वृत्ते ह्निांपतिष्वो रशि श्छव्यशर्षु // 1 / 1 / 15 // ] अघो इत्यादि / (125) अघोभगोभोर्वशि गित् / [1 / 1 / 15 / 1 / ] अः अवर्ण अघो भगो भो एतेभ्यो रूः, अभेदात् तद्विसर्गः अशि परे गित् स्यात् / गविशिष्ट इत् गिदसन्ध्यर्थम् / ता हन्ति / अघो याहि / परो य्वोऽत्र सम्बध्यते, सोऽशि गित् स्यात् / वृक्ष हसति / रुः किम् ? स्वर्याति / एतेभ्यः किम् ? श्रीरत्र / अशि किम् ? कः खे / अघोः खम् / / (126) य वाचि / [1 / 1 / 15 / 2 / ] एतेभ्यो रु विसर्गो यः यः स्याद् वाऽनच्, अचि परे / कयिह / क इह / कायिह / का इह / अघोयिह / अघो इह / रोः किम् ? स्वरिह / अशीत्यतो वार्थसिद्धौ वोत्तरार्थः / (127) य्वोऽल्पप्रयत्नश्च / [1 / 1 / 15 / 3 / ] य च व् अश्यनच्कार्थी अचि परे / एतेभ्योऽल्पप्रयत्नश्च गिच्च वा स्यात्, तस्य तद्विधानात् तत्तरश्च वा / वृक्ष इह / वृक्षयिह / वृक्षवत् / वृक्षअत् / वृक्षायिह / वृक्षा इह / वृक्षाविह / त आहुः / तयाहुः / तस्मा इदम् / तस्मायिदम् / तः / अघोयिह / अघो इह / एवं भगो, भोः / (128) तथोजि / [1 / 1 / 15 / 4 / ] य्वः कार्थी उकारादसंभवाद् वर्णात्पर उजि परेऽल्पप्रयत्नादिर्वा स्यात् / वृक्ष वु करोति / वृक्षवु / वृक्ष उ / तस्मायु / तस्मा उ / उजीति पृथक् किम् ? यवाचीत्यच्कार्यं मा भूत् / स उ / अघो उ / (129) अत्तोऽद्धष्युत् / [1 / 1 / 15 / 5 / ] तस् छंदोऽर्थम् / अतः अकारात् परो रु विसर्गो अति हषि च परे उत् स्यात् / कोऽयम् / पयोभ्याम् / अद्धषि किम् ? क इह / कः