________________ प्रथमोऽध्यायः प्रथमः पादः [मयोऽचि लिड वः शरि चय खयान्ते शरः स्वतोऽज्झोन्ययणो मयो स्वः / तकाचिनोराच्छरधिक्षिपाच्च पुत्राद् द्वयादादिनी ङम्पदान्ते // 1 / 1 / 11 // ] मयोऽचीत्यादि / . (79) मयोऽचि लिड्वः / [1 / 1 / 11 / 1 / ] मयः परः उञ् वः स्यादचि / स च लिड् उकोऽको लिड्वलीत्यर्थम् / किम्वत्र / किमु अत्र / तद्वस्य / तदु अस्य / किम्विति / किमू इति / किमु इति / किविति। असयः / गीभ उच्चैः / अनचि किम् ? किमुक्त्वा / (80) शरि चय् खयः / [1 / 1 / 11 / 2 / ] शरि परे चय् कार्यां खयः स्याद्वा / तक्ष्व / तत्क्य / प्स्याति / प्साति / चय् किम् ? ताञ्भ्यः / शरि किम् ? वाच्या / (81) द्विः शरः स्वतः / [1 / 1 / 11 / 3 / ] शरः परे स्वशब्दविहिताच्च खयो द्विः स्युर्वा / को / कः / खे / स्पंशः / स्पशः / त्वञ्च्छः / शरः किम् ? तात्ख। खयः किम् ? स्पः / यद्वा खयः परे शरो द्विः स्युर्वा / तच्क्ष्य / तच्श्य / प्स्याति / प्साति / खयः किम् ? तात्स्य / सशरः किम् ? ख्याति / (82) अज्झोऽन्यः / [1 / 1 / 11 / 4 / ] अचः परौ हरौ अनचौ अज्झ तस्मात् परोऽन्यस्तु . तत्त्वाद् अझेभ्यो परो द्विः स्याद्वा / ब्रह्ममा / ब्रह्मा / अर्कः / अर्कः / अचः किम् ? अचः - किम् ? हनुते / ह्र: किम् / आस्यम्। अज्झोन्यः किम् ? कर: / अर्हः / .. (83) यणो मयः / [1 / 1 / 11 / 5 / ] यणः परे मयो द्विः स्युर्वा / उल्का / उल्का / दीर्घा / दीर्घा / यणः किम् ? भून्मा / मयः किम् ? सेव्या / यद्वा मयः परे यणः द्विः स्युर्वा / अद्य / अद्य / यमः किम्? पाल्या / यणः किम् ? वाग्जः / . (84) स्वस्तकः / [1 / 1 / 11 / 6 / ] तितोऽकः / हुस्वात् पर: सर्त द्विः स्याद् अचि / वर्षाः / रात् किम् / वत्साः / अचि किम् ? कात्य॑म् / अधिक्षिपाच्च पुत्रा र इत्यर्थः / अझोन्यः स्वशब्दोक्तश्च द्विर्वा स्यात् / अद्य / अद्य / त्वक् / त्वक् / उर 5 कः / स्वः / त्वङ्कः / संय्यन्ता / अज्योन्यः किम् ? तितउः / सह्यः / वर्यः / ... (85) अचि नो / [1 / 1 / 117 / ] तक इति यद् द्वित्वं तन्नाचि / दधि / स्वंग्रहान्नान्येनापि तद्वम् इति / (86) राच्छर / [1 / 1 / 11 / 8 / ] रेकात् परः शर् न द्विः स्यादचि / वर्षाः / रात् किम् ? वत्स्यः / अचि किम् ? कात्य॑म् / (87) अधिक्षिपाच्च पुत्राद्वयादादिनी / [1 / 1 / 11 / 9 / ] आक्रोशश्चेदर्थः, चकारान् नञ्, नोत्तरत्र पुत्रद्वयाद् आदिनीति / पुत्रादिन् / पुत्रपुत्रादिन् शब्दे तको न द्विरित्यर्थः / पुत्रादिनी त्वमसि, पुत्रपुत्रादिनी च / अनाक्रोशे पुत्रादिनी शिशुमारिका / * पञ्च.-२