________________ 10 पञ्चग्रन्थी व्याकरणम् ...(88) ङम्पदान्ते / [1 / 1 / 11 / 10 / ] ह्रस्वात् परो ङम् पदान्तस्थोऽचि द्विः स्यात् / क्रुङ्ङास्ते / यण्णिक / पचन्निह / अचि नो इति बाधते // 11 // [ दीर्घाच्छ वाज्माङ इद्रिर्यमि स्वे यम्वा हलो झर्झरि चर्खशा- / स्तम्भोरुदो जश्झशि श्शूश्चना तौ ष्टुभ्यां नगर्या नवतेर्नुटोऽपि // 1 / 1 / 12 // ] दीर्धेत्यादि / . (89) दीर्घाच्छ वा / [1 / 1 / 12 / 1 / ] दीर्घात् पदान्तस्थात् परच्छो द्विर्वा स्यात् / गोच्छाया / पदान्तस्थात् किम् ? ह्रीच्छः / (90) अज्माङः / [1 / 1 / 12 / 2 / ] अच् मा आङ् / आङि च माऽच् ङित् / माद् इत्यर्थः / एभ्यश्छो नित्यं द्विः स्यात् पार्थक्यात् / इच्छ / ह्रीच्छ / अच्छत्र / आच्छिदः / आच्छितेः / आङिभ्यां चैव / (91) इद्रिर् / [1 / 1 / 12 / 3 / ] द्रि लघुः इल्लुत्स्याद् रि रेफे परे, र रेफ: / क्रूराः नीराः / द्रि लघुः संस्कृते द्विर्वचनाभावे संयोगपरोऽपि न गुरुरिति वचनात् / / (92) यमि स्वे यम् वा हलः / [1 / 1 / 12 / 4 / ] स्वे यमि परे यम् वा इत् स्याद्धलः परः / शय्या / शय्य्या / यमि किम् ? शाङ्गी / हलः किम् ? भिन्ना / अस्वे, अभ्यते / (93) झर्झरि / [1 / 1 / 12 / 5 / ] हलः परो झर् स्वे झरि इद् वा स्यात् / संस्कर्ता / संस्स्कर्ता / झर् किम् ? शाहूं / झरि किम् ? शच्छ्का / अस्वे / तप्र्ता / अहलो, बोद्धा। ___ (94) चीशर् / [ 1 / 1 / 12 / 6 / ] अशर् झर् चर् स्याज्झरि / स्व वा हलां निवृत्यर्थो हि / अच्छत्रः / तत्कः / लप्स्ये / झर् किम् / तत्ने / शर् [किम् ?] कश्शेते / पेष्टा / अस्ति / (95) स्थास्तम्भोरुदः / [1 / 1 / 12 / 7 / ] उदो विशेष्ययोः [स्था-] स्तम्भोरादिर्झर चर् स्यात् / उत्थाता / उत्तम्भः / उदो विशेष्ययोः किम् ? उत्स्थानः / एतयोः किम् ? उत्स्तोता / झर् किम् ? उदस्थात् / ___ (96) जश्झशि / [1 / 1 / 12 / 8 / ] झर् झशि परे जश् स्यात् / अर्जाः / मज्जति / अझशि | पच / (97) श्चुचूश्चना तौ / [1 / 1 / 12 / 9 / ] श्चू सतवर्गो एकैकः, स चवर्गयोगे तौ श्चू क्रमेण स्तः / शः / कश्च स्वरश्छेत्ता / वृश्चतु / तच्छय / तच्चराज्ञा / मज्जा / कश्च्योतति / तज्ज्योतति / शच्योततेः शादित्वे श वा श्चु न शोरिति / मधुक् शादिकार्यं च / (98) ष्टुभ्याम् / [1 / 1 / 12 / 10 / ] स्तू एकैक: षटवर्गयोगे ष्लू क्रमेण स्तः / ससप्पिष्यु। कष्टङ्कः / तुः / तट्टीकाः / (99) नगर्या नवतेर्नुटोऽपि / [1 / 1 / 12 / 11 / ] नुट आगमः / एषां तु ष्टुना योगे टुः स्यात् / षण्णगरी / पण्णवतिः / षण्णाम् / नुट्यर्थमदः // 12 //