________________ पञ्चग्रन्थी व्याकरणम् (69) आङ्देर् [1 / 1 / 10 / 2 / ] आड् ऋत् क्रमेण ए अर् स्यात् त्सुना सह / हे त्के। हे कर्तः कुल / आड् किम् ? हे सोमपाः / त्सुना किम् ? सा माता / (70) डार्तगवाडदत्वाः / [1 / 1 / 10 / 3 / ] न वा आड् यस्मात् सोऽव् आङ् गिति आर् इत्यर्थः / स च अच्च अंच अश्च जस् गणार्थ एते त्सुना सह डा आर् तक् स्युः / डित् / ऋत् / तित् / अन्तपरापवादह्रस्वार्थः / हे स्त्रि / वधु / अतिलक्ष्मि / वर्षाभु / कुण्ड / अम्ब / अक्क / अत्त / अल्ल / अनम्ब / स्वाम्ब / एते किम् ? हे श्रीः / सोमपाः / अम्बाडे / अम्बाले। अम्बिके। भ्रूवोऽन्यार्थ इत्येके / हे सुभ्रू / (71) मातः सु पुत्रे / [1 / 1 / 10 / 4 / ] मातृकः / सु पुत्रवृत्तिः / त्सुना मातस्याद् विसर्गः सुतः / सुरिति द्वयोरेकस्य वा पूजायाम् / हे गार्गीमात / कारीषगन्धिमात / सु किम् ? हे दाक्षीमातृक / पुत्रे किम् ? हे गार्गीमातृके / (72) अच्यव ओति गोर्वा / [1 / 1 / 10 / 5 / ] ग् अस्य ओः अवः स्याद् वाऽचि / ओकारो वाऽति अकारादौ पदे परे / गवोतिः / गवूतिः / गवार्तिः / गोतिः / अति ओ वाऽसन्ध्यर्थः / गोअत्तिः / गस्य ओः किम् ? द्विग्वरिः / द्विगोऽरिः / (73) अक्षेन्द्रयोः / [1 / 1 / 10 / 6 / ] गो अव स्यात् / पृथग् नित्यार्थम् / गवाक्षः / गवेन्द्रः / अवातायने गोऽक्षम् इत्यन्ये / (74) न प्लुत गित् / [1 / 1 / 10 / 7 / ] प्लुतश्च गिच्चावि नोक्तकार्यभाक् स्यात् / दत्त 3 अमी अश्वा आनेयाः। (75) क्वचिद् वा / [1 / 1 / 10 / 8 / ] प्लुतोऽचि क्वचिदुक्तभाक् स्यात्, क्वचिन्न इतौ स्यात् / सुश्लोकेइति / गिच्च मणीवादौ / मणीव। रौहिणीव / दंपतीव / रोदसीव / क्वचिद् वा / अश्नुही३ति / अश्नुहिइति। चिनुहि३इदम् / वास३ऽयम् / वसा३इयम् / (76) चाद्यङ्ङ्च् / [1 / 1 / 10 / 9 / ] चादिषु अङ् अङिद् अज्मात्रम् अचि उक्तभाग् न स्यात् / अ अपेहि / इ इन्द्रं पश्य / आ एवं नु मन्यसे / आ एवं किल तत् / ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः / एतमातं ङितं विन्द्याद् वाक्यस्मरणयोरङित् // अज्मात्रं किम् ? नन्विति / जानु उ अस्य, जान्वस्य रुजति / सन्धौ शब्दान्तरत्वात् / ओत् / चादि ओत् तथा / नो अथो / अहो उताहो एवम् / चाद्योत् किम् ? गोऽग्रम् / पृथक् तदन्तार्थम् / (77) वा त्स्वि इतौ / [1 / 1 / 10 / 10 / ] त्स्वि त्स्वौ परे य ओत् स वा नोक्तभाक् स्याद् इतौ परे / को इति / कविति / वेत्यातकः / (78) उजं च / [1 / 1 / 10 / 11 / ] उञ् इतौ परे ऊं च वा उक्तभाक् स वा स्यात् / ऊं इति / उ इति / विति // 9-10 //