________________ पञ्चग्रन्थी व्याकरणम् [दी? कि शे पुंस्त्र चि ढित्यणोऽरेडेवेजिणव्यौ शकन्धवोऽमी / . एषैष्ययोः प्रस्य तथोढऊढावक्षौहिणीरेरिणि च स्वसत्कः // 1 // 18 // ] दीर्घो कीत्यादि / (46) दीर्घा कि [1 / 1 / 8 / 1 / ] अदीर्घः स्याद्, अर्थात् स्वकि सपराच्काद्यवृद्धिः / (47) शे / [1 / 1 / 8 / 2 / ] द्वितीया शः / सः शे परे सपराद् दीर्घः स्यात् / मातृन् / (48) पुंस्त्र / [1 / 18 / 3 / ] पुंसि सु पुंसा / तस्यैव शसः / पुल्लिङ्गे सो न: स्यात् / अ उच्चारणार्थः / स्वान् / नृन् / पुंसि किम् ? स्वाः मातृः / __ (49) चि / [1 / 18 / 4 / ] लुप्ताकारनकारेऽञ्चतौ पराचोऽभावाद् अग्दीर्घः स्यात् / प्राचः। तृचः। चि किम् ? दव्यञ्चौ / दीर्घो कीति, प्राक् / (50) ढित्यण् / [1 / 1 / 8 / 5 / ] रढयोरिल्लोपो यस्मिंस्तत्र ढिति परेऽण् दीर्घः स्यात् / स्वाराः / लीढाः / अण् किम् ? दृढा / (51) ओऽरेङ् / [1 / 18 / 6 / ] अ: अरेङ् / स्वे दीर्घोक्तस्थास्विऽकी क्वि अवर्णः / सपराच् अर् एङ् स्यात् / सद्धिः / सल्कारः / तेन सोढा / (52) एवेजिणव्यौ च / [1 / 1 / 87 / ] एवतौ एचि इणि धातौ अच्-अव्-इव्-आदेशे परे अवर्णः सपराच् / ऐत् स्यात् / प्रैधते / सैषा / शौषः / सैन्द्री / तौ / उपैति / इणेजि च। कृतैत् किम् ? प्रैति / आ इतः। उपेतः / धौतः / इणेचीत्येद्वाधः / / (53) शकन्धवोऽमी / [1 / 18 / 8 / ] शकन्धुरित्यादयः / कृत्यवर्णादिलोपा निपात्यन्ते / अत्र दशादौ च षट्पात् / शकन्धुः कुलटा मूनि सीमन्तः समचंस्नसौ / हलीषा लाङ्गलीषा च मनीषा चादि नो हलीत् / स्युर्दश वत्सतरार्णं कम्बलं वसनं प्रवृत् // . अमूनि, सीमान्तः / चादि नो हलीत् / चादेरंशः चादेरेव हलि परे इल्लोप: स्यात् / उढि त्वै / उध्रि त्वै। अतीतं, तीतम्। अपिधानं, पिधानम् इत्यादि स्युः, अन्येऽपि आकृतिगणत्वात् / दशादि वक्ष्यमाणः / (54) एषैष्ययोः प्रस्य तथोढऊढौ / [1 / 1 / 8 / 9 / ] प्रस्य अः ऐत् स्यात्, एषादिषु सपराच् / प्रैषः / प्रैष्यः / प्रौढः / प्रौढिः / तथा किं ? प्रोढयति / एद्बाधः / (55) अक्षौहिणी / [1 / 1 / 8 / 10 / ] अक्षस्यादैजूहिन्यां सपराच् स्यात् / (56) इरेरिणि च स्वसत्कः / [1 / 1 / 8 / 11 / ] स्वसम्बन्धी अ: ऐत् स्यात् सपराच्, इरेरिणोः परतः / स्वैरः / स्वैरी // 8 //