________________ पञ्चग्रन्थी व्याकरणम् सर्वस्येत्यादिवृत्तम् / (22) सर्वस्य चेता / [1 / 1 / 6 / 1 / ] अनुबन्धेन सहोक्तोऽर्थाद् आदिवर्णः सर्वस्य इदवधिकस्य, चकारात् स्वस्य च, ग्राही स्यात् / अल् अकारादेः / (23) स्वसुपा विधिः / [ 1 / 1 / 6 / 2 / ] से प्रथमा, अर्सस्त्वादिविभक्त्यभावाः, तन्निर्दिष्टस्य सर्वस्य स्थाने विधिः स्यात् / अ: / अरेड् / तवर्यः / दन्तदता द्विदन् / अत एवात्राविभक्तिको निर्देशो भविष्यते / (24) शा। [1 / 1 / 6 / 3 / ] शिद्विधिः सर्वस्य स्यात् / स्त्ये च्छात्रकः / अस्मै / अन्त्यापवादोऽयम्। (25) माचः परः / [1 / 1 / 6 / 4 / ] मिद्विधिनिमित्तासन्नादचः परः स्यात् / स चागमः / बहूनि / पयांसि / वाञ्छन्ति / (26) अर्ध्या / [1 / 1 / 6 / 5 / ] पञ्चम्योक्तात् परो विधिः स्यात्, तं निमित्तं च। केन / वृक्षः / प्रत्ययस्यापि विधित्वात् / वेष्टलः / प्रकोपणम् / पूर्वाग्रहार्थां तयाद्य / (27) उसलः / [1 / 1 / 6 / 6 / ] षष्ठ्यन्तस्याल् वर्णमात्रं, तस्य पञ्चम्युक्तात् परस्य विधि: स्याद् अर्थाद् यादेः / द्वीपः / डसः किम् ? सर्वे / अन्त्यापवादोऽयम्। (28) द्वये / [1 / 1 / 67 / ] युगपद् विधिद्वये तुल्यबले प्राप्ते पर: स्यात् / अग्निम् / परत्वात् / मातरम् / (29) रा / [1 / 1 / 6 / 8 / ] रिद्विधिः पूर्वोऽपि स्यात् / परापवादः / सर्वाणि / य॑स् / न शीद् द्वयोरितोस्तुल्यबलत्वात् पर एव / हे इतरत् / त्रितरादितः / नर्तगवाडदम्बाः / __ (30) स्वादीत्सत् / [1 / 1 / 6 / 9 / ] लुप्तमपि स्वादि सदिव स्यात् / गोमान् / सुपयाः / (31) एनत्वमलिक्ष / [1 / 16 / 10 / ] एनदुत्वामाल् / इग्विधिषु स्वादि सदिव स्याल्लुगपि। एनच्छ्रितकाः / त्वदीयः / मन्मित्रः / निजागलीति / शोशवीति / (32) लुग्नो / [1 / 1 / 6 / 11 / ] लुक्शब्देन लुप्तं स्वादि सदिव नो स्यात् प्राक्कार्ये / हे वारि / हे वारे / लुगित्कार्यम् / प्राक्कार्ये किम् ? शिरः / (33) नं क्ये पदम् / [1 / 1 / 6 / 12 / ] नन्तं क्ये प्रत्यये परे पदसंज्ञं स्यात् / राजायते / राजीयति। नं किम् ? वाच्यति / (34) सिद्धलि / [1 / 1 / 6 / 13 / ] सिति वलादौ च प्रत्यये पूर्वं पदं स्यात् / भवदीयः / अहंयुः / वलि। राजता / पयोभ्याम् / वाक्त्वम् / सितीत्यधातोरेव / वच्मि / नियमविधानार्थं वचः / (35) न स्तिनर्थे / [1 / 1 / 6 / 14 / ] इनर्थे मत्वर्थीये वलि परे स्त न स्यात् / पयस्वी। आयुष्मान् / तडित्वान्। स्त किम् ? तक्षवान् / इनर्थे किम् / पयोभ्याम् // 6 //