________________ चतुर्थोऽध्यायः द्वितीयः पादः 341 चालार्थत्वात्. / गमयति ग्रामम् / एवं, बोधयति नरं श्लोकम् / स्रावयति / स्पन्दयतीत्यर्थः / योधयति / तं द्रावयति / कण्डञ् हृञ् कृञ् णिञ् / कण्डूयते / [हारयते / ] कारयते / टित्त्वाद् अप्रादेःि / गां जानीते / टित् किम् ? स्वर्गं प्रतिजानाति / स्वार्थे किम् ? कण्डूयते / गो जानाति / अपाद् वदः / अपवदते / धातुतिङः धातुपाठे विभाषितात् / तनुते / सनुते / पचते / यजते / धातु किम् ? क्रमते / क्रामतीति फलं विनापि तङ् / स्वार्थे किम् ? पचन्ति कर्मकराः / एवं सर्वत्र / अश्रुतावग्रन्थेऽर्थे सम्-आङ्-उदो यमः / व्रीहिन् संयच्छते / वस्त्रमायच्छते / भारमुद्यच्छते / अदादेण्यन्ताद् अद् वेट आहारार्थादिति निषेधे प्राप्ते नृतेश्चालार्थाद् इत्यन्येभ्यः प्राणिकतृकाद् इति / आदयते / धापयते / पाययते / परिमोहयते / दमयते / आयामयते / आयासयते / नर्तयते / वादयते / रोचयते / ध्वनेर्गतौ वा / शब्दान्तरवत् फलताप्रतीतौ स्वार्थे वा तङ् / स्वं कटं कारयते, कारयति वा / स्वं यज्ञं याजयते, याजयति वा / एवं सर्वत्र / इतोऽस्वार्थे / मितश्च धातोर्वा तङ् / क्लिदिन् परिदेवने / क्लिन्दते / [क्लिन्दति / ] एठहेठन् विबाधायां पठते / व्यवस्थितविभाषया विशेषे तङ् वा / स्फुटिर् विशरणे, मुडि खण्डने, ष्वञ् [परि]ष्वङ्गे, लघि शोषणे अतङानिनः / स्फुट विकसने / मुडि मार्जने, शुद्धावित्यर्थः / प्वञ्ज परिष्वङ्गे / लघि गतौ तङानिनः / उभयार्थं नि / शकन् मर्षे अदा-(दिवा- )दौ / धृषन्, दिवुन्, शठन्, रिपन्, लक्षन् चुरादौ निता इदुदिरितो न वाच्यन्ते / प्राग् आत् धातुपु न विभाषिताः स्वार्थेऽपि विकल्पार्थम् / उपाद् रमोऽकर्मकाद् वा / कञ्चित्कालमुपरमते, [उपरमति] / वृदादेः सन् स्ये परे वा / विवृत्सति / विवर्तिषते / वय॑ते / वतिष्यते / चिक्लृप्सति / चिकल्पिपते / कल्प्स्यति / [कल्पिष्यते / ] लुटित् क्लृपो वा कल्पिता / लुटि पर धुते, द्युतादेर्वा / व्यद्युतत् / व्यद्योतिष्ट / अश्वितत् / अश्वेतिष्ट / डाच्लोहितादेस्तत्रैव [3 / 4 / 1 / 1 / 4 / ] तद्वोक्तः // 11 // समाप्तोऽधिकार: // पञ्चग्रन्थ्यां संस्कृताधिकार इत्यर्थः // 10 // 16 // [इति श्रीबुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे चतुर्थाध्याये द्वितीयः, आदितो वा चतुर्दशः, पादः / ] [ // ग्रन्थकृत्परिचयः / ] आसीन्महावीरजिनोऽस्य शिष्यः ___ सुधर्मनामाऽस्य च जम्बुनामा / तस्यापि शिष्यः प्रभवोऽस्य शिष्यः शय्यम्भवोऽस्यानु परम्परायाम् // 1 / / वज्रोऽस्य शाखाम्बरमण्डलेऽस्मिन् साधूनुवृन्दावृतशान्तकान्तिः / भव्यासुमत्सत्कुमुदप्रबोधो निर्नाशिताज्ञानघनान्धकारः / / 2 / / बालेन्दुवत् सर्वजनाभिवन्द्यः शुक्लीकृताङ्गीकृतसाधुपक्षः /