________________ 340 पञ्चग्रन्थी व्याकरणम् वाद्यति वाद्यते / अवादि / अवीवदत् / वादयाञ्चके / [वादायां] बभूव, [वादया]मास च / णिजित् तथेति / तथैव किन्तु णिलुक् स्यात् इडादौ तङि / वादिष्यते, [अवादिष्यत] शङ्खः स्वयम् [एव] // 8 // आप्यवत् तस्थ: / आप्यस्थार्थो यो धातुस्तस्याप्ये कर्तरि यो लोत्रपरो आप्यः कर्ता आप्यवत् स्याद् यगादिभाक् / भिद्यते, अभेदि कुशूलः स्वयम् / लूयते, अलावि केदारः स्वयम् / कारिष्यते, अकारि कटः स्यम् / अनाप्ये किम् ? भिद्यमानोऽसौ पात्रं भिनत्ति / तथाहि कर्मस्थक्रियतद्भावौ तयोः कर्ता हि कर्मवत् / कर्तृस्थक्रियतद्भावौ [कर्म]योर्न च तद्यथा // 12 // कर्मस्थः पचंतेर्भावः कर्मस्था च भिदेः क्रिया / मासासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया // 13 / / कर्मस्थया क्रियया तुल्यक्रियकर्ताकर्मवत् / नेह / राध्यत्योदनः स्वय[मेव] / पचत्योदनं ना / मासः आस्यते ना / ग्रामो गम्यते ना / दुहिपची आप्यकर्तृलकारान्ता वाऽनाप्यौ साप्यौ वा साप्यावेव स्तः / दुग्धे, अदुग्धः गौः स्वयम् / पच्यते, अपाचि ओदनः स्वयम् / तस्मात् सलोहितं पच्यते उदुम्बरफलम् / अनाप्यानिवृत्त्यर्थं वचनम् / सृजः श्रद्धावान् कर्ताऽऽप्यवत् / सृज्यते माला / साऽसजि / श्राद्धः किम् ? सृजति स ताम् / असृष्ट / तप आप्यस्य तपस्तथा / तपते तपः सः / अतप्त वा / तपोऽर्मः किम् ? उत्तपति स तम् / वञ्चिगृधेय॑न्ताद् [वि]संवादने तङ एव / स तं वञ्चयते, [गर्धयते] / : प्रलम्भने किम् ? तं [वञ्चयति,] गर्धयति / लियो ण्यन्तात् प्रलम्भने पूजाभिभवे च तङ अन्त आ च / कस्त्वामुल्लापयते ? जटाभिरालापयते / पूजयति [इत्यर्थः] / तमुल्लापयते / न्यक्करोति [इत्यर्थः] / एपु किम् ? बालमुल्लापयति / स्मर्ण्यन्ताद् आचान्तः प्रयोजकाद् विस्मयेऽर्थे / मुण्डो विस्मापयते / प्रयोजकात् किम् ? कुञ्चिकयैनं विस्मापयति // 9 // भियो ण्यन्तात् तङः षुक् च आ च / सः शतं भीषयते / प्रयोक्तुः किम् ? तपोऽसौ भाययति / अभ्यासे व्याद्यावृत्तौ [मि]थ्यायोगे कृञो ण्यन्तात् / मिथ्या पदं कारयते / स्वरादिदुष्टमसकृदुच्चारयति [इत्यर्थः] | स्वार्थे कर्तृप्रयोजने क्रियाफले विवक्षिते विपर्योपरमादिवजिताद् रिदादेस्तङः / अविपर्योपरमादेः किम् ? एभ्यः फलवति न स्युः / वि-परि-आङ्-उपाद् रमः / विरमति / [परिणमति / आरमति / उपरमति / ] एवम्, अतिक्षिपति / [अभिक्षिपति / प्रतिक्षिपति / ] परानोः कृञः / पराकरोति / [अनुकरोति / ] परिवहति / [प्रवहति / ] परिमृष्यति / तत्तविशेष्यात् किम् ? गेहं परिरमते / तं प्रतिक्षिपते / गङ्गामनुकुरुते नृपः / इत्यादि / प्राणिकर्जण्यरमिञ् / अणीति अण्यन्तो यः प्राणिकर्तृ चित्तवत्कर्तृकः, अरम् व्याप्यरहितः, तत इजि ति णिजन्तान्न स्वार्थे तङ् जितः प्राप्तः / आस्ते / स आसयति / तं शेते सा / शाययति तम् / प्राणिकर्तृक इति किम् ? शुष्यन्ति व्रीहयः / शोषयते [ता] नातपः / अण्यन्तः किम् ? आरोहयमाणं प्रयोजयति, आरोहयति / अरम् किम् ? कटं कुर्वाणं कारयति / प्र आदिस्तथा क्वचिदाप्याद् अप्राणिकर्तृकादपि / प्रावयति / प्रवतीत्यर्थः / एवं, जनयति सुखम् / नाशयति रोगम् / इङ् / अध्यापयति नरम् // 10 // आहारार्थात् / भोजयति / आशयति / चालार्थात् / चलयति / कम्पयति / त्यर्थादपि