________________ चतुर्थोऽध्यायः द्वितीयः पादः 339 रहस्युपमन्त्रणे वा / कर्मकरानुपवदते / कुलभार्यामुपवदते / उपच्छन्दयति [इत्यर्थः] // 6 // विविन्नमोक्त्योः / विशिष्टा वित् विवित् नानामतिः तत्र विमत्रौ वदः / गहे विवदन्ते / चित्रं भाषन्ते [इत्यर्थः] / अमोक्तौ च नृणाम् अमा सहोच्चारणे / सम्प्रवदन्ते विप्राः / न किम् ? सम्प्रवदन्ति कुक्कुटाः / अमोक्तौ किम् ? संवदन्ति / इह वा / इहेत्यनन्तरोभये विपक्षिते विमतौ विप्रलापे, अमोक्तौ व्यक्तं सहोक्तौ चार्थे वदेर्वा / विप्रवदन्ते मौहूर्ताः, विप्रवदन्ति वा / एवं, सांवत्सराः / युगपदन्योन्यविरुद्धं वदन्ति / विमतौ किम् ? सम्प्रवदन्ते ग्राम्याः / नृ किम् ? विप्रवदन्ति शकुनयः / अमोक्तौ किम् ? एकैकशो विप्रवदन्ति मौहूर्ताः / अरमोऽनोः / अनाप्यादनोर्वदः / अनुवदते कठः कलापस्य / सदृशं ब्रूते [इत्यर्थः] / अरमः किम् ? पूर्वोक्तमनुवदति / अरमटा. जैः / सपिषो जानीते / तेन प्रवर्तते [इत्यर्थः] / अरमः किम् ? स्वरेण पुत्रं जानाति / रित् सर्ज्ञाप्योऽत्र टार्थम् / निह्नवेऽर्थे ज्ञः / शतमपजानीते / अपलपति [इत्यर्थः] / अस्मृत्यर्थे सम्प्रते: ज्ञः / शतं संजानीते / [शतं प्रतिजानीते / ] अस्मृतौ किम् ? मातुः संजानाति, [प्रतिजानाति] / स्मरति [इत्यर्थः] / आज्ञो हन्तियमेः, व्युद्भ्यां तपः स्वाङ्गाप्यात् / शिर आहते / पाणिमायच्छते / पृष्ठं वितपते, [उत्तपते] / स्वाङ्गार्मः किम् ? सोऽस्य पृष्ठमाहन्ति, [आयच्छति, उत्तपति, वितपति] / अनाप्यात् तथा / आहते / अनाप्यात् किम् ? आहन्ति तं पादेन / आयच्छति रज्जु कूपात् / वितपति, [उत्तपति] सुवर्णं ना / अनाप्यात् समः परात् श्रुप्रभृतेः / संशृणुते / संगच्छते / संस्वरते / ऋ ऋच्छ / सा समृत / समृच्छते / संपश्यते / संपृच्छते / संवित्ते // 7 // - क्त्वासूहः / कित्त्वात् प्रादेः अस् उहो वा / निरस्यते, [निरस्यति] / समूहते, [समूहति] / प्रादेः किम् ? अस्यति [शत्रून् / समूहति पदार्थान् ] / आप्ये स्मरणेऽप्यणेणैः / अणेरण्यन्तस्य यदाप्यं तस्मिन्नेव णेय॑न्तस्य कर्तरि विवक्षितेऽस्मरणेऽर्थे तस्यैवानाप्याद् धातोः / आरोहन्ति हस्तिनं हस्तिपकाः / आरोहयते स तान् / सिञ्चति तम् / स तान् सेचयते / स्वयमेव पश्यन्ति राजानं भृत्याः / दर्शयते स तान् स्वयम् / परिवृण्वन्ति कण्टका: वृक्षम् / स तान् परिवारयते / णेः किम् ? 'आरोहन्ति ते / स आरुह्यमाणो हस्ती साध्वारोहति / अणः किम् ? गणयति गणं ना / गणयति गणः स्वयम् / अस्मरणे किम् ? नास्य स्मरति नरम् अयं स्वयम् / आप्ये किम् ? दात्रेण लुनाति / लावयति दात्रं स्वयम / तस्यैवेति णेरेव / आरोहन्ति तं ते / आरोहयमाणोऽसौ तान् भीतान् मत्रेण सेचयति / अनाप्यात् किम् ? आरोहन्ति तं ते / आरोहयमाणो हस्ती स्थलमारोहयति तान् / आप्ये कर्तरि किम् ? आरोहन्ति तं ते / तानारोहति महामात्रः / अफलार्थं कर्तृस्थार्थं वचनम् / कृत्रादेराप्ये कर्तरि तङ एव / ब्रूते, अवोचत् कथा स्वयम् [एव] श्रनीते, अश्रन्थीष्ट, ग्रनीते, अग्रन्थीष्ट, माला स्वयम् [एव] / नमते, अनंश्त दण्ड: स्वयम् [एव] / दुग्धे, अदुग्ध / प्रस्तुते, प्रास्नौष्ट गौः स्वयम् [एव] / इहारम् / विकुरुते, व्यकृषत कटः स्वयम् [एव] / तथा, भूषयते, अभूषयत, मण्डयते, [अमण्डयत] कन्या स्वयम् [एव] / अवकिरते, अवाकीट च [हस्ती] स्वयम् [एव] / श्रयते दण्ड: [स्वयमेव] / कारयते, चिकीर्षते कटः स्वयम् [एव] / कुषिरजेविहिताद् यकः / परे आप्ये कर्तरि आप्यवद्भावेन विहितास्तङो वा / कुष्यति, कुष्यते वा पादः स्वयम् [एव] / रज्यते, रज्यति वस्त्रं स्वयम् [एव] / यकः किम् ? चुकुषे, [कोषिषीष्ट] पादः स्वयम् [एव] / अकोषि / [अरञ्जि / ] कर्तरि किम् ? कुष्यते [कोषिष्यते] पादेन स्वयम् [एव] / वादेः / वाप्ये कर्तरि /