________________ 338 पञ्चग्रन्थी व्याकरणम् प्रतिहन्यते / सर्गे उत्साहेऽनुज्ञाने वा / पराक्रमते, [उपक्र मते, क्रमते] छन्दो ध्ययनाय / तत्रोत्सहतेऽनुज्ञातो वा / परादेः किम् ? संक्रामति / तायनादौ किम् ? पराक्रमति // 3 // ___ आङो भसूतौ / आङ: क्रमे: ज्योतिरुद्गतावर्थे / आक्रमतेऽर्कः, चन्द्रः [वा] / आक्रमन्ते ज्योतींषि / भसूतौ किम् ? स आक्रमति धूमः / सूतौ किम् ? नभः समाक्रमति / सहने क्षान्तौ आङो गमेः / आगमयस्व तावत् / अक्षान्तौ किम् ? आगमयति / ण्यन्तोऽयम् / अमुखे मुखविषयादव्यादार्थाद् आङो दाङः / वनं प्रशं शाकं वाऽऽदत्ते / आस्यमादत्ते ना / व्याददते पिपीलिका मुखं पतङ्गस्य / अमुखे किम् ? कूलं व्याददाति [नदी] / मुखं [व्याददाति] / एवं भमिः विपादिकां [व्याददाति] / आङो हयते: स्पर्धनेऽर्थे / स तमायते / स्पर्धायां किम ? मामाह्वयति / व्युपसंनिभ्यो ह्वयते / [विह्वयते / उपह्वयते / संह्वयते / निह्वयते / ] मृङो लुङ्लिङौ शिद् विषये / अमृत / मृषीष्ट / म्रियते / एषु किम् ? ममार / स्मृदृशः सनन्तात् / नष्टं सुस्मूर्षते / नृपं दिदक्षते / अननोर्जः सनः / धर्मं जिज्ञासते / अनोः / तन्त्रमनुजिज्ञासति / अनाङ्मतेः श्रोः सनः / गुरून् शुश्रूषते / आङ्प्रतेः / आशुश्रूषति [प्रतिशुश्रूषति / ] सनन्तात् पूर्वधातोरेव / शीङ् / शिशयिषते / निविश् / निविविक्षते / प्रतिचिक्षिप्सति / विरंसति / कृञः परार्थः // 4 // ___ आमः / आमन्तपूर्वधातोरिव कृत्रो अनुप्रयोगात् / ईक्षाञ्चक्रे / जागराञ्चकार / बिभराञ्चक्रे / [बिभराञ्चकार / ] स्वार्थेऽपि न तङः / कृञः किम् ? ईक्षांबभूव / विध्यर्थं नियमार्थम् / कथाद्यर्थात् कृञः कथायां प्रस्तावे प्रकर्षोक्तौ वा / गाथाः प्रकुरुते, जनापवादांश्च / गन्धने हिंसात्मके सूचने / स तमुत्कुरुते, उदाकुरुते / प्रयत्ने / एधो दकस्योपस्कुरुते / साहसे / परदारान् प्रकुरुते / अवक्षेपे / दुर्विनीतान् प्रकुरुते / सेवायाम् / महामात्रानुपकुरुते / सुकृते धर्मादिविनियोगे / शतं प्रकुरुते / अधेर्बले / अधेः कृत्रः बले शक्तावर्थे / तं हाधिचक्रे / तमधिबभूव / न वा तेन पराजितः / एषु किम् ? कटं करोति / अरंशब्दरवेः / वेः कृञोऽरमित्यनाप्याच्छब्दरमिति शब्दाप्याच्च / विकुर्वते सेन्धवाः, साधुदान्ताः / काकस्वरान् विकुरुते / अन्यत्र, पयोऽधिकरोति / अवाद् गृ / अवगिरते / अवात् किम् ? गिरति / समः गृ प्रतिज्ञाने अभ्युपगमे / शतं संगिरते / नित्यं शब्दं वा [संगिरते] / [?प्रति] ज्ञाने किम् ? ग्रासं संगिरते / प्रवेः स्थश्च / चान्यत्रयोगात् प्रवेरवसमश्च तिष्ठतेः / प्रतिष्ठते / [वितिष्ठते / अवतिष्ठते / सन्तिष्ठते / प्रकाशनिर्णये चावापि प्रतिज्ञाने चार्थे / छात्रेभ्यस्तिष्ठते कुमारी / आत्मानं प्रकाशयति [इत्यर्थः] / विवादे निर्णेतरि / त्वयि तिष्ठते / त्वया च्छेत्तव्योऽसौ [इत्यर्थः] / नित्यं जीवमातिष्ठते // 5 // अनूघेहेऽर्थे उदः स्थः / मुक्तावुत्तिष्ठते, गेहे वा / [तदर्थं] घटते [? यतते इत्यर्थः] / अनूचे किम् ? आसनादुत्तिष्ठति / ईहायां किम् ? अतो ग्रामाच्छतमुत्तिष्ठति, / उत्पद्यते [इत्यर्थः] / उपात् मैत्र्यादौ / गणकानुपतिष्ठते / आग्नेय्या आग्नीध्रमुपतिष्ठते / यमुना गङ्गामुपतिष्ठते / अयं पन्थाः स्रुघ्नमुपतिष्ठते / आदित्यमुपतिष्ठते / लिप्सारमोर्वा / उपस्थः लिप्सायामवाप्याच्च वा / [भिक्षुको] विप्रकुलमुपतिष्ठते, उपतिष्ठति / अरमभोजनकाले उपतिष्ठते, उपतिष्ठति / उपाद्यमो विवाहे दारकर्मणि / कन्यामुपयच्छते / स्वीकरोति / [इत्यर्थः] / विवाहे किम् ? सोऽस्य भार्यामुपयच्छति / भादिषु फलेषु सह भूतेषु करणेषु विशेषणे वदः / सा छन्दसि तात्पर्यप्रकाशनाद् भाति / वदि तु / सं व्याकरणे वदते, जानाति / वदितुं जानन् वा वदति / यत्ते क्षेत्रे वदते तत्रोत्सहते / उपच्छन्दने उपसान्त्वने,