________________ चतुर्थोऽध्यायः द्वितीयः पादः 337 आनुते शृगालः / आपृच्छते गुरुम् / एवं परिक्रीणीते / [विक्रीणीते / अवक्रीणीते / विजयते / [पराजयते / ] अपस्किरतेऽश्वा / संक्षुणुते शस्त्रम् / अनुक्तव्यतिहारे अखग्घ इति समासः / शकन्ध्वाद्यलोपः / अनुक्ते अप्रतिपादिते शब्दान्तरेण, आद्योऽन्यतरेतरपरस्परेत्यादिना क्रियाव्यतिहारेऽद् विनिमयेऽर्थे, अखग्घ इति खिगिघिद्वजिताद् धातोः / व्यतिलुनीते / व्यतिभवते सेना / व्यतिभवेते ग्रामनगरे / व्यतिहारे किम् ? लुनन्ति / अनुक्ते किम् ? अन्योन्यस्य धान्यं वाति, लुनन्ति, [व्यतिलुनन्ति / ] अखग्घः किम् ? गतिहिंसाशब्दार्थान्न / व्यतिगच्छन्ति / व्यतिसर्पन्ति / व्यतिघ्नन्ति / व्यतिहिंसन्ति / व्यतिजल्पन्ति / व्यतिपठन्ति / व्यतिवादयन्ति / मुख्यगतिहिंसार्थादेव / व्यतिनयते / व्यतिभेदयन्ते / संव्यतिवहन्ते गर्गाः / सप्रहरन्ते राजानः / वह णी प्रापणार्थे / हृञ् हरणे / खिगितो वा किम् ? घित् तु शब्दार्थोपलक्षणमिति / व्यतिहसन्ति इत्यादि स्यात् / कर्तरि किम् ? व्यतिगम्यते ग्रामः / अजाद्यन्तात् प्रादेः परात् युजः यज्ञपात्राऽप्रयोगे / उद्युक्ते / अनुयुङ्क्ते / अयज्ञपात्रे किम् ? द्वन्द्वं [न्यञ्चि] पात्राणि प्रयुनक्ति धीरः / अजाघन्तात् किम् ? संयुनक्ति // 1 // साप्यादः पराच्चरः / गेहमच्चरते / उत्क्रम्य याति [इत्यर्थः / ] साप्यात किम् ? बाष्पमुच्चरति / र्टा समः / दृति तृतीयायुक्तात् सञ्चरः / रथेन सञ्चरते / _ किम् ? उभौ लोको सञ्चरति / उत्क्रमेऽशिष्टव्यवहारेऽर्थे समो दाणः / / इति र्टा चेत् सम्प्रदानेऽर्थे स्यादताएव / दास्या सम्प्रयच्छते, वृषल्या सम्प्रयच्छते / कामुक [सन्] दास्यै ददातीत्यर्थः / . किम् ? पाणिना सम्प्रयच्छति / उत्क्रमे किम् ? ब्राह्मण्यै सम्प्रयच्छति // अकूजार्थक्रीडेः समः आङ्-अनुपरेश्च / संक्रीडते / [आक्रीडते / अनुक्रीडते / परिक्रीडते / ] अकूजने किम् ? संक्रीडन्ति शकटानि / अरक्षणेऽपालने, उपालम्भे वाचा शरीरस्पर्शने, प्रोषितस्य भावाभावोपलब्धौ कञ्चिदासेवने वा, आशिषि प्रार्थने, गतिशीले गमनानुकरणे / गतौ शीले वा, क्रमेण भुजि-शपि-नाथ-हञ्भ्यः / ओदनं भुङ्क्ते / तस्मै शपते / सपिषो नाथते / पैतृकमश्वा अनुहरन्ते / तद्वद् गच्छन्ति शीलन्ति वा / एषु किम् ? भुनक्ति पृथिवीं राजा / तं शपति, आक्रोशति [इत्यर्थः] / तं नाथति, याचते [इत्यर्थः] / भारं * हरति / ज्ञानादावर्थे न्यः नियो धातोः / ज्ञाने नयते / प्रमेयं निश्चिनोति / भृतौ वेतने / कर्मकरानुपनयते / व्यये धर्मादिनियोगे / शतं विनयते // 2 // . उत्क्षेपणे / तमुदानयते / उत्क्षिपति / पूजायां यथार्थप्रकाशनार्थसन्माने / नयते चार्वी अर्थान् / उपपत्तिभिः स्थापयति / विगणने ऋणादिनिर्यातने / मद्राः कारं विनयन्ते / उपनीत्याम् उपनयने / आत्मानमार्यं कुर्वन् तं समीपीकरोतीत्यर्थः / एषु किम् ? अजां नयति ग्रामम् / कर्तृस्थितामूर्तरमः / कर्तृस्थममूर्तमाप्यं यस्य तस्मानियः / क्रोधं मन्युं वा विनयते / कर्तृस्थं किम् ? स तस्य क्रोधं विनयति / अमूर्त [इति] किम् ? गईं आप्यं किम् ? बुद्ध्या विनयति / उपप्रात् कमेरारम्भे / आदिकर्मणि / उपक्रमते भोक्तुम् / [प्रक्रमते भोक्तुम् / ] आरम्भे किम् ? पूर्वेधुः प्रकामति, [गच्छतीत्यर्थः] / चरणेन पादाभ्यां क्रमणेऽर्थे वेः / साधु विक्रमते / अश्वादिगत्यर्थोऽत्र / क्रमणे किम् ? विक्रामति राजा, उत्सहते [इत्यर्थः] / ट्वा / टित्त्वाद् अप्रादेः क्रमो वा / क्रमते / [क्रामति / ] परोपटः / परोपाभ्यां, टित्त्वादप्रादेश्च तायनाद्यर्थे / तायने सन्ताने पालने वा / पराक्रमन्ते उपक्रमन्ते क्रमन्ते [अस्मिन्] शास्त्राणि / सन्तन्यन्ते पाल्यन्ते वा [इत्यर्थः] / वृत्तावात्मयातनेऽप्रतिघाते वा / ऋक्ष्वस्य पराक्रमते, [उपक्रमते, क्रमते] बुद्धिः / तदाश्रया साऽऽत्मानं यापयति, तत्र वा न पञ्च.-४३