________________ 336 पञ्चग्रन्थी व्याकरणम् अक्रियत, अकृत, क्रियेत, कृषीष्ट कटो वा / एवं बभूवे, [भविष्यते, भूयताम्, अभूयत्, अभावि, भूयेत, भविषीष्ट] ब्रा / नियमार्थमधिकारार्थं वचनम् // (182 ) ङिदादेः / [ 4 / 2 / 16 / 10 / ] ङ इत् यस्य, तदादेर्धातुगणात्, लादेशास्तङाना एव कर्तरि भवन्ति / भिदादौ वृत्तानि नाना दश षट्पदी ङिच्छीयते ङान्निविशानुप्रच्छाः परिव्यवक्रीविपराज्यपस्कृ-। संक्ष्णोरनुक्तव्यतिहारखग्घोऽजाद्यन्तप्रादेर्युजयज्ञपात्रे // 1 // साप्योच्चरो र्टा सम उत्क्रमे दाण् कूजक्रीडानुपरेररक्षणोपालम्भ आशीर्गतिशीलयोर्भुजशप्नाथहज्ञानभृतिव्यये न्यः // 2 // उत्क्षेपपूजाविगणोपनीत्यां कर्तृस्थिताऽमूर्तरमः क्रमेरा- / रम्भे ट्र्युपप्राच्चरणेन वेष्ट्वा परोपटस्तायनवृत्तिसर्गे // 3 // आङो भसूतौ सहने गमोऽमुखे स्पर्धने हो व्युपसंनितो मृङः / लुङ्लिशिति स्यात् स्मृदृशः सनोऽननोर्मोऽनाप्रते श्रोरथ पूर्ववत् कृञः // 4 // आमः कथागन्धनयत्नसाहसावक्षेपसेवासुकृते धृते बले-। ऽरंशब्दरंवेरवगृसमः प्रतिज्ञाने प्रवेः स्थश्च प्रकाशनिर्णये // 5 // उदोऽप्यनूर्वेह उपात्तु मैत्री मन्त्रोक्तिसङ्गाध्वनिदेवतायें / लिप्सारमोर्वोपयमो विवाहे भोज्ञानयत्नेऽप्युपच्छन्दने वद् // 6 // विविन्नमोक्त्योरिह वारमोऽनोर्नो निह्नवे वाऽस्मृतिसम्प्रतिभ्याम् / स्वाङ्गार्म आहन्यमव्युत्तपोऽनाप्यात् संश्रुगंसृच्छ्शप्रच्छिवित्तेः // 7 // क्त्वासूह आप्ये स्मरणेऽप्यणेणेः कृञ्चश्नमग्रन्थदुहस्विहारम् / . भूषार्थकृश्रीणि सनो यको वा कुप्रञ्जितो वादि णिजित् तथेडि // 8 // स्यादाप्यवत् तस्थ उदुह्पची च श्राद्धः सृजे: स्यात् तु तपस्तपोऽर्मः / प्रलम्भने वञ्चगृधिणेलियश्चात् पूजाभिभूतौ च प्रयोजकात् स्मः // 9 // षुक् चा भियोऽभ्यास उ मिथ्यया कृञः स्वार्थे विपर्योपरमेऽत्यभिप्रति / क्षिप्कृञ्परान्वादिपरिप्रवपरिमृष्प्राणिकञण्यरमिञ् प्रजन्नशेङ् // 10 // आहारचालार्थबुधसुयुध्द्रुवो जिट्ज्ञापवद्धातुतिङोऽश्रुतो समोत् / यञ्चादिधेपापरिमुह्दमायमायश्च नृतौवद्रुचि णेर्ध्वनिर्गतौ / स्याद् वा नितश्चोपरमेरकर्मणः सन्स्ये तु वृद्भ्यो लुटि क्लृप् लुङि धुश्वः // 11 // ङितः / महीङ् महीयते / क्यङ् / सेनायते / यङ् / पापच्यते / णिङ् / कामयते / इयङ् / क्रतीयते / शीङ् / शेते / षूङ् / सूते / शीयशदेः शं च तात् / शीयते / तद्वतः धातुपाठे तङानिनः / एधते / वर्धते / ङा / आस्ते / जुगुप्सते / नेविंशः / निविशते / आङोऽनुप्रच्छिभ्याम् /