________________ चतुर्थोऽध्यायः द्वितीयः पादः ___ 335 परश्च तो. लुक् स्यात् / उदपादि सस्यम् / ते किम् ? उदपत्साताम् // (174) दीपपूायिताय्बुजनो वा / [ 4 / 2 / 16 / 2 / ] तत् तथा वाऽतः / [अदीपि / ] अदीपिष्ट / अपूरि / [अपूरिष्ट / ] अप्यायि / [अप्यायिष्ट / अतायि / अतायिष्ट / ] अबोधि / अबुद्ध / अजनि / [अजनिष्ट // ] (175) अद्रुहाप्ये / [ 4 / 2 / 16 / 3 / ] अजन्ताद् धातोर्दुहश्चाप्ये कर्तरि तत् तथा वा / अकारि, अकृत वा कटः स्वयम् / अलावि, अलविष्ट वा केदारः स्वयम् / अदोहि, अदुग्ध [वा] गौः स्वयम् / आप्ये कर्तरि किम् ? अकारि कटः [देवदत्तेन i] अदोहि गौः ना / अज्दुहः' किम् ? अभेदि कोष्ठः स्वयम् // (176 ) रुधो नो / [ 4 / 2 / 16 / 4 / ] तथेण् न / अन्वरुद्ध गौः स्वयम् / आप्ये कर्तरि किम् ? अन्वरोधि गौा // (177) तपोऽनोश्च / [ 4 / 2 / 16 / 5 / ] तपतेरनोविशेष्याद् आप्ये कर्तरि नेण् / अन्ववातप्त पापेन कर्मणाऽसौ / अतप्त तपः तापसः / अनुतप् पश्चात्तापार्थः // - (178) भावामि / [4 / 2 / 16 / 6 / ] भावाप्ययोस्तत् तथा / आसि / अशायि ना / अकारि कटो ना // . (179) वा लि स्ति हन्डस्त्रहावः / [4 / 2 / 16 / 7 / ] हनादेर्धातोः स्तीति सादौ तादौ लि लकारे तन्निमित्ते परतः भावाप्ययोरिण् वा / घानिष्यते / अघानिष्यत / हनिष्यते / [अहनिष्यत / ] दर्शयिष्यते / [अदर्शयिष्यत / ] द्रक्षते / [अक्षत / ] ग्राहिष्यते / [अग्राहिष्यत / ] ग्रहीष्यते / . [अग्रहीष्यत / ] अजन्तात् / शायिष्यते / [अशायिष्यत / ] शयिष्यते / [अशयिष्यत / ] दायिष्यते / [अदायिष्यत / ] दास्यते / [अदास्यत / ] चायिष्यते / [अचायिष्यत / ] चेष्यते / [अचेष्यत / ] अघानिषाताम् / घनिषीष्ट / अवधिषाताम् / अहनिषाताम् / अहासातां च / अदर्शिषाताम् / [अदृक्षाताम् / ] अग्राहिषाताम् / [अग्रहिषाताम् / ] अदायिषाताम् / अदिषाताम् / दासीष्ट / अचायिषाताम् / अचेषाताम् / [चेषीष्ट / ] अशायिष्याताम् / अशयिषाताम् / तादौ / घानिता / हन्ता / दर्शिता / द्रष्टा / ग्राहिता / दायिता / दाता / चायिता / चेता / कारिता / कर्ता / स्ति किम् ? चीयते / लि किम् ? पिपासते / हनादेः किम् ? पठिष्यते / भावाप्ये किम् ? हनिष्यते / लि स्तीत्यत एव पूर्वान्ताः सादयः // (180) शलौ यक् / [ 4 / 2 / 16 / 8 / ] भावाप्ये विहिते शलौ शिति लिलिङ्वजिते लादेशे च परे यक् स्याद् धातोः / आस्येत सुप्यमानं ना / क्रोशं गोदोहं मासं चास्यते ना / अविवक्षिताप्यात् / नेह / पच्यते जा / सेव्यते / आप्ये / पच्यते ओदनः गम्यते ग्रामो ना / पच्यताम् / पच्येत / अपच्यत / शलौ किम् ? पेचे / पक्षीष्ट / इह तु पक्ता / पक्ष्यते / अपक्ष्यत / अपक्तेति व्यवधानान्न स्यात् // (181) तङानाः / [ 4 / 2 / 16 / 9 / ] एव सर्वलादेशे भावाप्ये स्युः / भूयते, स्थीयते ना / न भुज्यते / न पच्यते / आप्ये / क्रियते कटो ना / एवं चक्रे [कटो ना / ] करिष्यते / क्रियताम्,